________________ 88 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीशान्तिनाथ गजाऽब्जेन्दुसरश्चारुचतुःस्वप्नैश्च सूचितः / समये तनयो जातो धाम्ना नाम्नाऽपराजितः // 126 // मणिचूलोऽप्यतश्च्युत्वाऽनुद्धरीकुक्षिमीयिवान् / सिंहार्कपूर्णकलशाः लक्ष्मीरत्नोच्चयाब्धयः // 127 // हुताशनश्च सप्तैते तया स्वप्ना विलोकिताः / प्रविशन्तो मुखे तेन वासुदेवोऽप्यबुद्धयत // 128 // पूर्वाऽपूर्वस्वर्णवर्णः परः परमरामरुक् / द्वितीयस्यानन्तवीर्य इत्याख्याऽधायि भूभुजा // 129 // क्रमाद् वृद्धौ प्रसिद्धौ तौ समृद्धौ सर्वविद्यया / __ अगण्यपुण्यलावण्यौ सनैपुण्यौ महाबलौ // 130 // एकदा तत्पुरोद्याने तीर्थराजः स्वयंप्रभः / हर्षकृत् समवासापर्षीत् नृपोऽकार्षीन् महोत्सवम् // 131 // राज्ञि स्थिते यथास्थानं तदाऽभाषिष्ट मृष्टवाक् / कषायाः परिहर्तव्याः बोधात् क्रोधादयः समे // 132 // तत् फलं सकलं दुष्टमनिष्टं शिष्टवर्जितम् / तद् वृन्दं निर्जितं येन तर्जितं तेन पातकम् // 133 // महानन्दाध्वनि क्रूरा दूरात् मोच्या अमी सता / भवाऽभ्रमी शमी नूनं न श्रमी यः शिवंगमी // 134 // क्रोधो माया मदो लोभश्चतुरश्चतुरोऽप्यमून् / _जेता नेता शिवश्रीणां स गेयो दैवतैः प्रगे // 135 !! दशा षोडशधाऽमीषामाद्योऽनन्तानुबन्धकः / ___ अप्रत्याख्याननामाऽन्यः प्रत्याख्यानस्तृतीयकः // 136 // तुर्यः संज्वलनः क्रोधः एवं माया स्मयः स्पृहा / मित्रानन्द इवानन्दभेदकाश्चेदकारणम् / 137 / ( अत्र मित्रानन्दकथाऽपि वृद्धाद् श्रीशान्तिचरित्राद् ज्ञेया / ) स्वयंप्रभजिनाभ्यणे समाकर्ण्य विबोधभाक् / अनन्तवीर्य संस्थाप्य यतिः स्तिमितसागरः // 138 /