________________ महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीशान्तिनाथ निविण्णेऽथ श्रीविजयेऽमिततेजा उपागमत् / विद्याबलेन तन्मायां निराकृत्याऽवदत् सुरी // 94 // यत्रैत्यशनिघोषोऽयं पापिष्ठस्तं समानय / पृष्टे लग्ना सुरीत्युक्त्या क्रमात् सीमानगे ययौ // 95 // तत्र श्रीवृषभचैत्ये प्राप्तः केवलमुज्ज्वलम् / बलदेवोऽचलस्तस्य शरणेनाशनिः स्थितः / 96 / देव्या गिरावगत्येदं सुतारामानयद्रयात् / दूतेन सर्वे संभूय बलदेवान्तिकं ययुः // 97 / / चक्रुमिथः क्षामणकं केवल्यादेशलेशतः / सुताराग्रहपृच्छां चाऽशनिवेगस्ततोऽकरोत् // 98 // केवली प्राह पूर्वस्मिन् भवे त्वं कपिलोऽभवः / सुतारा सत्यभामेयं निःस्नेहा प्राग्भवे त्वयि / / 99 // भूमान् अमिततेजाश्च श्रीषेणः प्राग्भवेऽप्यमूम् / __ ररक्ष सत्यभामां तत् प्रेमाऽप्यतिशयी द्वयोः // 10 // पुनरप्यमितक्ष्मापः पप्रच्छ स्वभवान् पुरः / भगवानाह नवमे भवे चक्री च पञ्चमः / 101 / षोडशस्तीर्थकृद् भावी तव श्रीविजयो नृपः / भविष्यति गणेशश्च गणेशश्च प्रियंकरः / 102 / श्राद्धः श्रीविजयो जज्ञेऽमिततेजोऽन्वितस्ततः / स्वयंप्रभा च व्रतिनी तपोधनससाधना / 103 / विरक्तोऽशनिवेगोऽपि राज्ये संस्थाप्य चाऽऽत्मजम् / नीत्वा चमरचञ्चायां गुरुं दीक्षामुपाददे // 104 // पञ्चवर्णरत्नमयः कारितोऽमिततेजसा / प्रासादः प्रतिमा जैन्यः स्थापितास्तत्र सोत्सवम् // 105 // तत्पार्श्वे पौषधस्थानं कारयित्वा स तत्त्ववित् / ___ श्रमणोपासकैः सार्धं सद्धर्म पर्यपू पुषत् // 106 // श्राद्धधर्मोऽयमेवोक्तो ज्ञानिभिर्जिनपूजनम् / देवधर्मों देवगतेर्दाता त्राता भवार्णवात् // 107 // प्रथमं दर्शनं धार्य तच्छुद्धिर्जिनपूजनात् / नारम्भस्तत्र नो हिंसा मान्या सुमनसा मनाम् / / 108 // यत्याहारविहारादौ क्रियास्थाने त्रयोदशे / सावधेऽपि यथावादी तथाकारी जिनागमे / 109 / व्रताचारात् पूर्वमेव विनयो वन्दनादिकः / वन्दनं पूजनं सम्यक् सत्कारादिमुनीहितः // 110 //