________________ 74 ] महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीविमलनाथ चक्रे मुक्ते मेरकेण ताडितोरःस्थलो हरिः / मूच्छित्वा पुनरुत्तस्थौ जातो जयजयारवः / 39 / तस्यैव चक्रमादायाऽच्छिनत् मेरककण्ठकम् / ___पपात भूमौ तत् सैन्यं दैन्यमेवाश्रयत् तदा / / 40 // सुरैः कृता पुष्पवृष्टिः स्वयम्भूरर्द्धचक्रभृत् / उत्पन्न इति निर्घोषः प्रससार भुवस्तले // 41 // प्राग्वदेवाऽस्य सम्बन्धः प्रज्ञेयो भगवानथ / छमस्थो वत्सरयुगं भूयो दीक्षावनं ययौ / 42 / जम्बूतरुतले पोषसितषष्टयांशषष्ठकृत् / घातिकर्मक्षयादाप केवलज्ञानमुज्ज्वलम् // 43 // गणेशाः सप्तपञ्चाशत् मन्दराज्या बभूविरे / यक्षो द्वादशहस्तोऽस्य विदिता च चतुःकरी // 44 // दक्षिणैः फलचक्रेषु खड्गपाशाक्षसूत्रिभिः / वामैनकुलचक्राभीदाय्यकुशफलान्वितैः // 45 // स धनुभिरयं नाम्ना षण्मुखो यक्षिणी पुनः / धनुनागधरा वामे बाणपाशधरा परैः // 46 // द्वारकायां च समवसृतं मत्वा जिनेश्वरम् / स्वयम्भूर्भद्रसहितो ववन्दे नन्दिताशयः // 47 // देशनाऽप्याहती जज्ञे मानुष्येऽमुष्यभूषणम् / भूषणं विश्वपद्मस्य धर्म कुर्याद् विशुद्धधीः / 48 / उप्तस्तीर्थकृता धर्मकल्पद्र्गणधारकैः / वद्धितस्तद्योग्यपात्रैः शोभमानः शिवं फलेत् // 49 // भेजे स्वयम्भूः सम्यक्त्वं श्रावकत्वं बलोऽप्यधात् / तद्देशनाशनात् पुष्टोऽनूक्ताद् गणभृताऽपि हि // 50 // द्विवर्षोंनां पञ्चदशलक्षीमाकेवलात् परम् / ___ व्यतीयिवान् जिनः प्राप्तः संमेताचलमुत्तमम् // 51 / / साधुभिः षट्सहस्रश्वाऽनशनं प्रत्यपद्यत / मासान्तेऽशुचिसप्तम्यां शुचौ मासे शिवं ययौ // 52 // कौमारे पञ्चदशाब्दलशास्त्रिंशद् भुवोऽवने / व्रते पञ्चदशेत्यायुः प्रभोः षष्टयब्दलक्ष्यभूत् // 53 // श्रीवासुपूज्यनिर्वाणात् विमलस्वामिनिवृतिः / सागराणां त्रिंशता तु व्यतीतायामजायत / 54 / पष्टिवत्सरलक्षाणि स्वायुः सम्पूर्य माधवः / स्वयम्भूः षष्ठनरकं ययौ दुष्कर्मसङ्गतेः / 55 / द्वादशाब्दसहस्राणां कौमारे राज्यशासने / तावतां वर्षनवतिय॑तीयाय दिशां जये // 56 // एकोनषष्टिवर्षाणां लक्षाः सहस्रकाः पुनः / पञ्चसप्ततिरधिका दशा...नवभिः शतैः // 57 //