________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् मुनिचन्द्रगुरोरात्तदीक्षोऽतन्द्रः स भद्रराट् / आयुर्वत्सरलक्षाणां पष्टि कृत्वा शिवं ययौ // 58 // इति श्रीलघुत्रिषष्टीयचरिते श्रीविमलनाथचरितं तृतीयविष्णुचरितसहितं संपूर्णम् // .. श्रीअनन्तनाथचरितम् / प्राग्भवेऽभून्नृपः पद्मरथः श्रीमदनन्तजित् / धातकीखण्डमध्यस्थप्राग्विदेहविभूषणे // 1 // ऐरावताख्ये विजयेऽरिष्टापुरि पार्थिवः / बाह्यानिवान्तरान् शत्रून् जेतुमैच्छदतुच्छधीः // 2 // कृती प्रकृतिरक्षायै प्रावर्धिष्ट गृही यथा / तथा षट्कायरक्षायै चित्तरक्षाद् व्रतं ललौ / / 3 / / तीर्थकृन्नामकर्माऽर्हद्भक्त्यादिस्थानविंशतेः / बद्ध्वा प्राणतके पुष्पोत्तरे सोऽभूत् सुरोत्तरः / / 4 // दक्षिणे भरतार्द्ध जम्बूद्वीपान्तरे स्थिते / ईक्ष्वाकुवंशगिरिभूरयोध्या नगरी वरा / / 5 / / पराक्रमी सिंह इव सिंहसेनो नरेश्वरः / सुयशा नाम तत्पत्नी निःसपत्नीयिता गुणैः // 6 // तस्याः कुक्षिसरोहंसोऽवतंसः स सुपर्वणाम् / . . नभस्य शुभ्रसप्तम्यां पौष्णलीने निशापतौ // 7 // . विंशत्यम्बुद्धिमानायुश्च्युत्वा ज्ञानत्रयीधरः / - अवातारीत् ततः स्वप्नाँश्चतुर्दश ददर्श सा / / 8 / / . त्रयोदश्यां कृष्णराधे रेवत्यां सुवशा सुतम् / - अजीजनज्जनहितं तं चाऽनन्तं पिताऽभ्यधात् / / 9 / / जन्मोत्सवात् समारभ्य यावता छमता श्रिता / प्राच्याऽर्हद्वत् वाच्यमत्र चरितं सकलं कलम् / / 10 / / जन्माऽहनि व्रतादानं वर्द्धमानपुरे पुनः / पारणा षष्ठतपसो गेहे विजयभूपतेः / / 11 // जम्बूद्वीपान्तरे पूर्व विदेहेष्वस्ति नन्दिका / पुरी महाबलस्तस्याऽवश्योऽथ धरणीधवः / / 12 / /