________________ चरितम् ] लघुत्रिष्टिशलाकापुरुषचरितम् तन्मित्रं बलिभूपालः सोऽपि तत्रैव तस्थिवान् / ___ अमुख्यमुख्यसख्यस्य रसावेशाद् विदेशमुक् // 22 // अनयो तरमणात् धनमित्रः पणीकृतम् / राज्यं हारितवाँस्तेन निःश्रीकश्चाभ्रमद् भुवि // 23 // लोकेऽवमाननां प्राप्य लज्जयाऽदर्शयन् मुखम् / सुदर्शनमुनेर्दीक्षां लेभेऽदम्भमनाः क्रमात् // 24 // अनेन तपसा हन्ता भूयासं बलिभूपतेः / एवं कृत निदानोऽगादुत्कृष्टायुस्ततोऽच्युते // 25 // जैनीदीक्षां बलिरपि स्वीकृत्य नित्यसुव्रतः / सुरो भूत्वा च्युतस्तस्माद् भरतेऽवातरत्तराम् // 26 // सानन्दनन्दनपुरे भूपः समरकेसरी / सुदेवी वनितारत्नं तयोः पुत्रः पवित्रधीः // 27 // पष्टिधन्वोन्नतः पष्टिवर्षलक्षायुरुत्तमः / प्रतिविष्णुमेरकारव्यस्त्रिखण्डभरताधिपः // 28 // भरते द्वारकापुर्या रुद्रनामा महाबलः / सुप्रभाद्या द्वितीयाऽस्य पृथिवीनामतः प्रिया // 29 // जीवो नन्दिसुमित्रस्य सुप्रभाकुक्षिभूषणम् / बलभद्रश्चतुः स्वप्नलक्षितो भद्र इत्यभूत् // 30 // धनमित्रस्य जीवोऽपि पृथिव्या उदरे हरेः / अवतारेण चोत्पेदे सप्तस्वप्नोपलक्षितः / 31 / स्वयम्भूरिति नाम्नाऽयं प्रसिद्धो धैर्यशौर्यतः / सङ्गति मुचत्तस्य प्रेम्णा भद्रोऽतिशायिना // 32 // पुर्या बहिर्बलक्रीडारसेनाऽभ्यागतौ वने। सेनां ददृशतुर्गुर्वी हस्त्यश्वरथसकुलाम् // 33 // * पृष्टः सेनापतिस्ताभ्यां के यूयं कस्य सेवकाः / तेनोचे मेरकबलं राजदण्डार्थमागतम् / 34 / हरिणाऽवाचि को भ्रष्टो वराको मेरको भुवि / / योऽस्मद् याचते दण्डं तद् घातिनोऽस्मान्न वेद किम् 1 // 35 // इत्युदित्वा क्रुधा सर्वमग्रहील्लुण्टनेन सः / तन्मत्वा मेरकः स्मागादनीकैः परभागतः / 36 / हरिः प्रतिहरिं श्रुत्वाऽभ्यागतं चाऽभ्यषेणयत् / __ वाद्यमानेषु वाद्येषु दारुणोऽभूद् रणोऽनयोः // 37 // भटानां कोटिरपतत् यद् विमृश्य मिथो द्वयोः / * जायमाने सम्पराये नाऽऽसीत् कोऽप्यन्तरायकृत् / // 38 // ल. त्रि. 10