________________ 15 विमलप्रभायां अभिषेकपादेन्द्रियस्य पद्मम्, पाय्विन्द्रियस्य मुद्गरं चेति गर्भमण्डले चिह्नन्यासः॥ 6 // ( 198b) इदानीं कमलबीजान्युच्यन्तेबिन्द्वाकारैविभिन्नं खलु कमलगतं कादिवर्गाक्षरं च कन्दे नाले दले च क्रमपरिरचितं केशरे कणिकायाम् / भूम्याधं चास्वरान्तं क व ग घ ङ इति ह्रस्वदीर्घः स्वभूमी बिन्दुश्चन्द्रो विसर्गो भवति दिनकरश्चासनं कणिकोर्ध्वम् // 61 // बिन्द्वाकारैरित्यादिना। इह चतुर्विशतिकमलेषु कादिवर्गाक्षरम् / 'कन्दादिषु बिन्द्वादिभिन्नम् अं अः अ आ-एभिभिन्नं देयं देवताकुलवशादिति। श्रोत्रस्य कमलकन्दे के नाले खं दले गं केशरे घं कणिकायां मिति। धर्मधातो: का खा गा घा ङा इति। मन इन्द्रियस्य सं-पं षं शंकं इति। शब्दस्य सः-प षः श:-कः इति परिणतं कमलमेभिः पञ्चाक्षरैः। संस्कारस्य कमले च छ ज झ ञ इति। एवं घ्राणस्य च छ ज झ ञम्। तथा वायुधातोः चा छा जा झा ञा इति / स्पर्शस्य' 'चाः छाः जाः झाःञाः इति / वेदनायाः ट ठ ड ढ ण इति। चक्षुषः ट ठ ड ढं णं इति / तेजोधातोः टाठा डा ढाणा इति। रसववायाः 'टाः ठा: डाः ढाः णा: इति। संज्ञाया: प फ ब भ म : इति / जिह्वायाःपं फंबं भं मं इति / उदकधातोः पा फा बा भा मा इति। रूपवज्रायाः "पाः फाः बाः भाः माः इति / रूपस्य त थ द ध न इति / कायेन्द्रियस्य तं थं दं धं नं इति / पृथ्वीधातोः ता था दा धा ना इति / गन्धस्य 'ताः थाः दाः धाः नाः इति / एवं च छ ज झ ञ वागिन्द्रयस्य। ट ठ ड ढ ण पाणीन्द्रियस्य / प फ ब भ म पादेन्द्रियस्य / त थ द ध न पाय्विन्द्रियस्य कमले 'विज्ञेया इति कमलबीजन्यासो ह्रस्वदीर्घः स्वभूमाविति नियमः। एवं बिन्दुनाऽकारेण हकारेण वा चन्द्रासनानि, विसर्गेण रेफेण क्षकारेण वा सूर्यासनानि कणिकोर्ध्वम्। "अधिपतिकमले सांपा षां शांकां कणिकोवं१२ १३अं अः अ। चन्द्रसूर्यराह्वासनानीति न्यासः॥६१॥[199a] . इदानीं पूजादेवीनां बीजान्युच्यन्तेषड्वर्गा ह्रस्वदीर्घप्रकृतिगुणवशाद् वेदिकास्तम्भपार्वे गन्धादीनां क्रमेण स्वकुलभुविगताः पूर्वभागात् स्वदिक्षु / 1. ग चन्द्रादिषु, छ. . कान्दादिषु / 2. क. 'षः' नास्ति / 3. ग. स्पर्शस्य वा। 4. भो. चः छः जः झः नः / 5. भो. टः ठः डा ढः णः। 6. क. ख. छ. 'इति' ... नास्ति / 7. भो. पः फः बः भः मः / 8. भो. तः थः दः धः नः। 9. क. ख. ....छ. विज्ञाया / 10. ग. 0 / 11. क. ख. छ. अतिपति / 12. ग. ०र्वे / 13. भो. ओं अः अ /