________________ पटले, 59-60 श्लो.] मण्डलवर्तनं नाम महोद्देशः ओ औ यक्षे च रुद्रे सुरवरुणयमद्वारवामे सयक्षे अं अश्चाद्या क्रमेण त्वपि च यरवला द्वारपद्मे स्वरादौ // 59 // तृतीयपुटे इह पूर्वद्वारस्य सव्ये सूर्यमण्डले कमलोपरिस्थे एकारो प्राणस्य, शिखिकमल'गतोऽग्निकोणे चन्द्रमण्डले ऐकारः स्पर्शवज्रायाः / एवं दक्षिणद्वारपश्चिमे अर्कारः चक्षुषः, नैऋत्ये तद्वद् आरकारो रसवज्रायाः। इति युग्मम् / एवं पश्चिमे अलकारः कायेन्द्रियस्य, आल्कारो वायव्ये गन्धवज्राया इति। ओ यक्षे जिह्वायाः, यो रुद्रे रूपवजा[198a]या इति। सुरवरुणयमद्वारवामे सयक्ष इति / इह पूर्वद्वारोत्तरे सूर्यमूनि अं मनइन्द्रियस्य, वरुणद्वारस्य दक्षिणे अः कारो धर्मधातोः, चन्द्रो यम इति दक्षिण द्वारपूर्वे अकारः सूर्ये श्रोत्रेन्द्रियस्येति। सर्वत्र "वामे भगवतश्चतुर्मुखभेदतः। यक्षे उत्तरद्वारपश्चिमे 'आःकारः शब्दवज्राया इति द्वादशायतनबीजन्यासः। - इदानीं द्वारपालबीजन्यास उच्यते-क्रमेण त्वपि च यरवला द्वारपने सुरावो / इह पूर्वद्वारे सूर्यमण्डले चन्द्रे वा यकारो वागिन्द्रियस्य, दक्षिणे सूर्ये पाणीन्द्रियस्य रेफः, उत्तरे च पादेन्द्रियस्य वकारः, पश्चिमे गुदेन्द्रियस्य [लकारः] इति न्यासः॥ 59 // 10 इदानीं चन्द्रसूर्यासननियम उच्यतेपूर्वद्वारेऽवसव्ये भवति शशधरश्चासनं क्रोधयोश्च सूर्यः सव्ये परे च प्रभवति कमलेष्वासनं द्वन्द्वयोश्च / प्रज्ञोपायप्रभेदैर्भवति हि सकलं चन्द्रसूर्यासनं च ... सव्ये पृष्ठे रविः स्यात् सुरपतिधनदे चन्द्रमेवासनं स्यात् // 60 // इह पूर्वद्वारेऽवसव्यद्वारे भवति शशधरश्चासनं क्रोषयोश्चेति। चकारात् सूर्यो वा। सूर्यः सव्येऽपरे च भवति प्रज्ञोपायाङ्गभेदेन / अथोपायासनं सूर्यः। प्रज्ञासनं चन्द्रः। स्वस्वकमलेषु / "अथ पूर्वाग्निदेवतादीनां खङ्गः। दक्षिणनैर्ऋत्यानां रत्नम्। उत्तरेशानानां पद्मम् / पश्चिमवायव्यानां चक्रम् / ऊधिोदेवतानां वज्र इति / अथवा विषयभेदेन शब्दस्य वीणा, स्पर्शस्य वस्त्रम्, रूपस्यादर्शः, रसस्य पात्रम्, गन्धस्य गन्धशङ्खः, धर्मधातोर्धर्मोदय"मिति / एवं वागिन्द्रियस्य खङ्गः, पाणीन्द्रियस्य दण्डः, 1. गते। 2. भो. आकारो, ग. च. अकारो / 3. ख. ग. चन्द्रे / 4. छ. द्वारः। ५.क. यामे / 6. भो. अः, ग. च.आ। 7. क. य व र ला। 8. भो. Ra Yig (रकारः)। 9. क. ख. छ. 'वकारः' नास्ति, ग. च. व / 10. भो. Yan Na (अथवा)। 11. छ. अथवा / 12. क. ख. छ. दक्षिणे। 13. ग. च. नैऋत्यां / 14. ग. ०दय इति /