________________ 10 विमलप्रभायां [ अभिषेकइह प्रथमं तावद् वज्राचार्येण स्वशरीरस्थानरक्षा चिन्तनीया, पश्चाच्छिष्यादीनां संग्रहो भूमिपरिग्रहादिकं च कर्तव्यमिति / अतः प्रथमं मन्त्री मण्डलाय कल्पितभूम्यां गत्वा मध्ये पूर्वाभिमुखो भूत्वा मृद्वासनोपविष्टः श्रीवत्रैरङ्गन्यासं करोति / ललाटे ॐकारेण शुक्लचन्द्रमण्डले न्यासम्, आःकारेण कण्ठे रक्तसूर्यमण्डले न्यासम्, हूँकारेण हृदये कृष्णराहुमण्डले न्यासम्, 'होकारेण नाभौ पीतवर्णकालाग्निमण्डले. न्यासम्, हंक्षःकाराभ्याम् उष्णीषे गुह्ये यथासंख्यं हरितनीलाकाशज्ञानमण्डले न्यासम् / एवं षण्मण्डलानि ध्यात्वा तेषु मण्डलेषु यथाक्रममेभिर्बीजैः परिणतानि वज्राणि भावयेत्-सप्तदशशुकम्, त्रयस्त्रिशत्शूकम्, 'नवशूकम्, पञ्चषष्टिशूकम्, पञ्चशूकम्, त्रयस्त्रिंशत्शूकम् / एवं बाह्ये वामस्कन्धबाहुमूलसन्धौ कवर्गात्मकमेकत्रिंशत्शकम्, एवं दक्षिणे दीर्घकव[172b]र्गात्मकम्, 'तथा वामोपबाहुसन्धौ ह्रस्वचवर्गात्मकम्, दक्षिणे दीर्घात्मकम्, तथा वामकरसन्धौ ह्रस्वटवर्गात्मकम्, दक्षिणे दीर्घात्मकम्, वामोरुसन्धौ ह्रस्वपवर्गात्मकम्, दक्षिणे दीर्घात्मकम्, वामजानुसन्धौ ह्रस्वतवर्गात्मकम्, दक्षिणे दीर्घात्मकम्, वामपादसन्धौ ह्रस्वस(श)वर्गात्मकम्, दक्षिणे दीर्घात्मकम् इति सन्धौ वज्रन्यासः। ___ तथाध्यात्मपटलोक्तबीजाक्षरैः प्रत्येकाङ्गुलिपर्वसु षष्टिषु सप्तशूकानि वज्राणि भावयेत् / एवं श्रोत्रयोः अआभ्यां त्रिशकं वज्रं भावयेत्, एऐभ्यां घ्राणरन्ध्रयोः, अआभ्यां नेत्रयोः, * ओऔभ्यां जिह्वालम्बिकयोः, अल्-आल्भ्यां वज्रगुह्ययोः; अंअभ्यां मनःशुक्रनाड्यामिति / एवमुष्णीषे शिरसि च हहाभ्यां पञ्चशूकम्, ततो 'जिह्वातालुकायां ययाभ्यां पञ्चशूकम्, हस्ततलयो रराभ्याम्, 'तथा पादतलयोः ववाभ्याम्, तथा पायुमिदक्षिणे ललाभ्यामिति / एवं वनकायमात्मानं भावयेदिति। ततस्तद्वज्रनिर्गतैर्वज्रज्वालाभिर्दशदिकस्थितमपि सकलं मारवृन्दं सत्त्वविहेठक निर्दहेत् / ऊर्ध्व हरितज्वालाभिः, अधो नोलज्वालाभिः; पूर्वेऽग्नौ कृष्णज्वालाभिः, दक्षिणे(ण)नैर्ऋत्ययो रक्तज्वालाभिः, उत्तरेशानयोः श्वेतज्वालाभिः, "पश्चिमवायव्ययोः पीतज्वालाभिरिति मारवृन्दं दग्ध्वा, ततः पश्चात् चक्रे दशारे दिशि विदिशि गतं भावयेत् क्रोधवृन्दमिति / इह वक्ष्यमाणक्रमेण मारविघ्नविनायकानां कोलनार्थं स्थानरक्षार्थ रक्षाचक्रं भावयेन्मन्त्री / इह वक्ष्यमाणश्लोके नियम उक्त: भूमौ दिक्षु त्रिवज्रः प्रथममिह वलि क्षेत्रपालाय दत्त्वा . पश्चाद् वज्रेश्चतुभिर्दिशि विदिशि गतं निर्दहेन्मारवृन्दम् // (3 / 25) इति / 25 1. छ. 'इह प्रथम"" कर्तव्यमिति' नास्ति / 2. च. 'वज्राचार्येण' नास्ति / 3. ग. च. होः / 4. ख. वस्त्राणि / 5. छ. 'नवसूकम्""एकत्रिंशत्सूकम्' नास्ति / 6. छ. 'तथा" दीर्घात्मकम्' नास्ति / 7. क. ख. छ. षष्टिषु' नास्ति / 8. च. आः। 9. भो. mChu lCe (ओष्ठजिह्वा)। 10. ग. च. विभाव० / 11. क. ख. छ. पश्चिमे / 12. ग. विनाशार्थ / 13. च. 'इह' नास्ति / 14. क. छ. वज्ररुक्तः चतुर्भि, ख. वजे रक्त चतु।