________________ T373 पटले, 22-23 श्लो.] रक्षाचक्रपूर्वङ्गमभूम्यादिसंग्रहमहोद्देशः 21 दुष्टदृष्टिविषापहरणं चेति द्वादशकर्मविधि ज्ञात्वा आचार्यो 'वक्ष्यमाणक्रमेण यदि करोति भगवतो नियमेन, तदा निश्चितं तत्फलदं भवति / परोपकाराय, न पुनः स्वार्थतः करोति यस्तस्य न किञ्चिदत्र सिद्धयति, केवलं क्लेशमात्रपरिश्रमो दुष्टाचार्याणाम् / तस्मात् तन्त्रोक्तनियमेन निरपेक्षकेणाचार्येण परोपकारार्थ कर्तव्यमभिज्ञालाभिनेति वक्ष्यमाणनियमो भविष्यति, तेनात्र विस्तरेण नोक्तमिति // 22 // इति मूलतन्त्रानुसारिण्यां लघुकालचक्रतन्त्रराजटीकायां द्वादशसाहसिकायां विमलप्रभायामभिषेकपटले वज्राचार्यादिसर्वकर्मप्रसरसाधना[172a] लक्षणमहोद्देशोः प्रथमः // (2) रक्षाचक्रपूर्वङ्गमभूम्यादिसंग्रहमहोद्देशः त्रैलोक्यविजयं नत्वा वज्रभैरवभीकरम् / दुर्दान्तदमकं वीरं कालचक्रं कपालिनम् // स्थानरक्षाविधिं वक्ष्ये मण्डलालेखनाय च। दुष्टनिर्घाट(त)नं चैव / भूम्यादिष्वधिवासनम् // यथोक्तं तन्त्रराजे च मञ्जुवज्रण चापरे / वितनोमि टीकया सर्व विधिं बुद्धफलाप्तये // ... इह प्रागुक्तविधिना सूर्यरथाध्येषितो मञ्जुश्रीभंगवान्निर्मितकायो यशोनरेन्द्रो मण्डलालेखनाय परमादि"बुद्धाद् बुद्धभगवतः प्रतिवचनं रक्षाचक्रादिकमुदाजहार त्रयोविंशत्यादिकैर्वृत्तः श्रीवत्रैः सर्वदिश्वित्याद्यैर्यदुक्तं तन्त्र, तत्सर्वं महोद्देशेन वितनोमीति 'श्रीवचैरित्यादिना श्रीवज्रः सर्वदिक्षु स्थितमपि सकलं निर्दहेन्मारवृन्दं पश्चाच्चक्रे दशारे दिशि विदिशि गतं भावयेत् क्रोधवृन्दम् / क्रोधेन्द्रश्चक्रमध्ये द्वयधिकजिनकरो वज्रवेगो युगास्यः तस्माद्यत्किञ्चिदिष्टं गुरुनियमयुतं साधकैः साधनीयम् // 23 // 1. भो. 'वक्ष्यमाणक्रमेण' नास्ति / 2. च. मित्यभि० / 3. क. छ. विस्तरेणोक्तम् / 4. ग. 'वज्राचार्यादि' नास्ति, भो. sLob dPon La Sogs ( आचार्यादि ) / 5. च. मादिबुद्धभग / 6. छ. 'श्रीवर्चरित्यादिना' नास्ति /