________________ T367 विमलप्रभायां [ अभिषेकनायाकनिष्ठभुवनपर्यन्तं लौकिक'सत्येनेति / परमार्थसत्येन रजोमण्डलालेखनं नास्ति, भगवतः प्रतिषेधात् / तथाह भगवान् आदिबुद्धे पातनं वज्रसूत्राणां रजसोऽपि निपातनम् / .. न कुर्यान्मन्त्रतत्त्वेन कुर्वतो बोधि दुर्लभः // इति / ___ इह यदि मन्त्रतत्त्वेन, मन्त्रमिति ज्ञानम्, मनस्त्राणभूतत्वात्, तेन मन्त्रतत्त्वेन यदि महामुद्रासिद्धयर्थं सूत्रपातनादिकं करोति वज्राचार्यः, तदा तस्य कुर्वतो बोधि(धिः) दुर्लभा भवतीति तथागतनियमः। तेन कारणेनेदं सुचन्द्राध्येषणं लौकिकसिद्धिसाधनार्थ पुण्यसम्भारार्थम्, न महामुद्रासिद्धिसाधनार्थं ज्ञानसम्भारार्थमिति / अत्र ज्ञानसाधनायापरं मण्डलत्रयं भगवतोक्तम् / तद्यथा कायेन्द्रियं भगश्चित्तं मण्डलं त्रिविधं भवेत् / कायवाञ्चित्तवज्राणां ना'परं पञ्चरङ्गिकम् // इति। अतो महासुखसाधनाय रजोमण्डलं न भवति, उत्तराभिषेकदानाय चेति सुचन्द्राध्येषणम् / तदेवाध्येषणावचनं सौचन्द्रवाक्यं श्रुत्वा प्रकर्षेण वदति सुगतो मण्डलं कालचक्रं सर्व देशयतीत्यर्थः। सर्वं वक्ष्यमाणक्रमत इति देशकाध्येषक वचनसंग्रहः // 1 // इदानीं वज्राचार्यपरीक्षां गुर्वाराधनाय द्वितीयवृत्तेनाह आदावित्यादिनाआदौ संसेवनीयो गुरुरपि समयी वज्रयानाधिरूढस्तत्त्वध्यायी स्वलुब्धो व्यपगतकलुषः क्षान्तिशीलोऽध्ववर्ती / शिष्याणां मार्गदाता नरकभयहरस्तत्त्वतो ब्रह्मचारी माराणां वज्रदण्डः स च धरणितले वज्रसत्त्वः प्रसिद्धः / / 2 / / इह मन्त्रनये प्रथमं लौकिकलोकोत्तरसिद्धिकाङ्क्षिभिः शिष्यगुरुः सेवनीयः, तं च सम्यक् परीक्षयित्वा वज्राचार्यपरीक्षोक्तविधिना। अन्यथा परीक्षालक्षणरहितस्य गुरोराराधनेन शिष्याणां धर्मविपर्यासो भवतीति, धर्मविपर्यासान्नरकगमनं भवति। [162b] अत आह-आदौ संसेवनीयो गुरुरपि समयोति / इह समयो द्विविधो बाह्य आध्यात्मिको नेयनीतार्थेनावगन्तव्यो वक्ष्यमाणे(णः), समयोऽस्यास्तीति समयी गुरुरादौ सम्यक् प्रकारेण सेवनीयः, पुत्रकलत्रादिभिराराधनीय इत्यर्थः / 1. ग. सत्यत्वेन / 2. ग. संसारार्थ / 3. क, ख. 'ना' नास्ति / 4. ख. रञ्जिक। 5. क, ख. छ. प्रतिवचन /