________________ T 366 10 3. अभिषेकोनाम तृतीयः पटलः (1) वज्राचार्यादिसर्वकर्मप्रसरसाधनालक्षणमहोद्देशः // नमः श्रीकालचक्राय // दत्तं येन हयादिकं दशविधं दानं च दानार्थिने पुण्यज्ञानबलेन तेन महता मारादयो ध्वंसिताः। सिक्त्वा श्रीमति धर्मधातुविमले वागीश्वरे मण्डले विश्वं व्याकृतमेकशास्तृविषये बुद्धाय तस्मै नमः / प्रणम्यैवं त्रिकायाग्रं कालचक्रं महासुखम् / त्रिमण्डलत्रिवज्राग्रं घोषवमनक्षरम् // टीकाऽभिषेकपटले मूलतन्त्रावबोधतः'। लिख्यतेऽत्र मया तन्त्रे पुण्यज्ञानफलाप्तये // इह श्रीमति कलापग्रामदक्षिणे' मलयोद्याने कालचक्रमण्डलगृहपूर्वद्वारावसाने' महामणिरत्नमण्डपे महामणिरत्नसिंहासनस्थेन यशोराज्ञा निर्मितकायेन मञ्जुश्रिया सूर्यरथाध्येषितेन तथागतव्याकृतेन परमादिबुद्धात् सुचन्द्राध्येषणार्थप्रतिपादकं लघुतन्त्रेऽभिषेकपटले प्रथमवृत्तं देशितम् / तदेव मया लोकेश्वरेण निर्मितकायेन पुण्डरीकेण तथागतव्याकृतेन मञ्जुश्रिया चोदितेन महोद्देश टीकया वितन्यते देहे विश्वस्य मानमित्यादिना- . देहे विश्वस्य मानं दिननिशिसमयो माससंक्रान्तिभेदा नाडीनां सूक्ष्मसंख्या प्रकृतिषु पुरुषस्तीथिकानां मतं च / वेदः(दे) कर्ता(l)दिभेदः श्रुतमिति हि मया मण्डलं देशनीयं श्रुत्वा सौचन्द्रवाक्यं प्रवदति सुगतो मण्डलं कालचक्रम् // 1 // इह देहे विश्वस्य मानमित्यादिना मण्डलं देशनीयमिति पर्यन्तं सुचन्द्राध्येषणम् / ततः श्रुत्वा सौचन्द्रवाक्यं प्रवदति सुगतो मण्डलं कालचक्रमित्यादि समस्ताभिषेक- पटलवृत्तेषु तथागतप्रति वचनं पुनरध्येषणाऽभावः पटलान्तं यावदिति। अत्र सुचन्द्र माह-इह देहे भगवन् ! यद् भगवतोक्तमध्यात्मपटले-'विश्वस्य मानं दिननिशिसमयं माससंक्रान्तिभेदात्' [इत्या]दि 'वेदे कादिभेदः' इति पर्यन्तं श्रुतं मया, सर्व ज्ञातमित्यर्थः। तदिदानी सत्त्वानां पुण्यज्ञानलाभाय भगवता मण्डलं देशनीयम् [162a] शिष्याणां सेकदानाय प्रतिमादीनां प्रतिष्ठाकरणाय दशतत्त्वसंयुक्तलौकिकसिद्धिसाध- 1. क. ख. छ. बोधकः / 2. क. ख. छ. दक्षिण""द्यान""अवसान / 3. छ. मणिसिंहा। 4. ग. महोद्देशक / 5. क. ख. छ. प्रवचनम् / 6. ग. भेदः कर्ता। 15 20 25