________________ पटले, 49-51 श्लो.] प्राणदेवतोत्पादमहोद्देशः 179 चेति / गीतं कुर्वन्ति देव्यस्त्वमपि हि भगवन् सर्वसत्त्वोपकारी अस्मान्' रक्षा हिं वनिन् त्रिदशनरगुरो कामकामाथिनीश्चेति / अत्र मैत्रीकरुणामुदितोपेक्षास्वभाविन्यस्तारामामकीपाण्डरालोचनादेव्यश्चोदयन्ति पञ्चमण्डलवाहार्थं बालानां भगवतो जगदर्थायेति देवीवज्रगीतिकाचोदनानियमः / तथा मूलतन्त्रे लोचनाऽहं जगन्माता निष्यन्दे योगिनां स्थिता / मे मण्डलस्वभावेन कालचक्रोत्थ काम माम् / / मामकी भगिनी चाहं विपाके योगिनां स्थिता। मे मण्डलस्वभावेन कालचक्रोत्थ काम माम् // पाण्डरा दुहिता चाहं पुरुषे योगिनां स्थिता / 'मे मण्डलस्वभावेन कालचक्रोत्थ काम माम् // तारिणी भागिनेयाहं वैमल्ये योगिनां स्थिता। मे मण्डलस्वभावेन कालचक्रोत्थ काम माम् / / - शून्यमण्डलमादाय कायवाञ्चित्तमण्डलम् / स्फारयस्व जगन्नाथ जगदुद्धरणाशय / / इति / एवं समसुखफलदे नाभिगुह्यादिकमले मूगितं विज्ञानं प्रबोधयन्ति बालाना- मिव देवता कायस्थमिति नीतार्थः // 50 // इदानीं देवतोत्थानमुच्यतेगीतं श्रुत्वा स वज्री त्रिभुवनसकलं विन्द्रजालोपमं वै दृष्ट्वोत्पत्ति करोति स्फुरदमलकरं स्फारयित्वा स्वचिह्नम् / वज्रालङ्का[269a]रयुक्तो जिनपतिमुकुट: प्रज्ञयालिङ्गितश्च प्रज्ञोपायेन राजन् पुनरपि सकलं मण्डलोत्सर्जनं च // 51 // गीतं श्रुत्वेत्यादिना / अत्र शून्यतायां प्रविष्टो भगवान् गीतिकाभिः प्रबोधितः सन् मायोपमं सकलं जगद् दृष्ट्वा सत्त्वार्थाय भूय उत्पत्ति करोति स्फुरदमलकरं स्फारयित्वा स्वचिह्न पञ्चशूकवचं हूँकारपरिणतम् / तेन वज्रालङ्कारयुक्तो जिनपतिमुकुटोsक्षोभ्यमुकुटः प्रज्ञालिङ्गितो वे शून्यमण्डलवाहिन्या वज्रधात्वीश्वर्या विश्वमात्रा। तहृदये बालानामिव प्रज्ञोपायेन / राजनिति सम्बोधनम्। प्रज्ञोपायसमापत्या गगनस्थान् स्कन्धधात्वायतनादिस्वभावेन समयमण्डलार्थ बुद्धान् पञ्चमण्डलस्वभावान् 15 25 1. ग. च. अस्माद् / 2. म. भिव / 3. ग. काय / 4. भो. 'पञ्च' नास्ति / 5. ग. ताकारकायस्थ / 6. ग. 'ना' नास्ति / 7. ग. धनार्थम् /