________________ 178 विमलप्रभायां [साधनाचित्तकायवाग्धर्मेण मण्डलो'त्सर्जनं कुर्याज्जातस्य बालकस्य प्रबोधाक्रन्दनादिति / इह मन्त्रनये जरायुजोत्पत्तिक्रमेण नवमासैर्बालकस्य कायनिष्पत्तिः। देवतानां पञ्चाकाराभिसंबोधिलक्षणा कायनिष्पत्तिः। सेवाङ्गं प्रथमम् / अत्र देवताहङ्काराय मन्त्रपदम् ॐ सुविशुद्धधर्मधा त्वात्मकोऽहमित्युच्चार्य ततो 'वागुत्पादाय द्वितीयं सेवाङ्गं भावयेद् योगी॥४९॥ इति "मूलतन्त्रानुसारिण्यां लघुकालचक्रतन्त्रराजटीकायां द्वादशसाहसिकायां विमलप्रभायां 'साधनापटले उत्पत्तिक्रमण कायनिष्पत्तिमहोद्देशो द्वितीयः। ... (3) प्राणदेवतोत्पादमहोद्देशः होःकाराद्यन्तगर्भे समसुखफलदे कायवाकचित्तवज्रं. प्रज्ञारागद्रुतं तच्छशिनमिव विभुं वज्रिणं 'चेक्षयित्वा / गीतं कुर्वन्ति देव्यस्त्वमपि हि भगवन् सर्वसत्त्वोपकारी अस्मान् रक्षा हि वनिन् त्रिदशनरगुरो कामकामाथिनीश्च // 50 // [268b] वाग्वजं दशमण्डलात्मकमिह प्राणस्य संचारतः पञ्चस्थानगतं स्वरप्रकृतितः शून्यादिभेदात् सदा। सत्त्वानामधिमुक्तितो भवभयात् सन्मार्गसंदेशकम् उत्पादोऽस्य वितन्यते निगदितो मञ्जश्रिया टीकया / होःकारेत्यादि / इह यथा मत्र्ये गर्भजानां प्राणवायूत्पादाय स्वमण्डलवाहिनः पथिव्यादिधातवो विज्ञानं चोदयन्ति जाग्रदवस्थार्थ. स्वप्नावस्थां प्रविष्टस्य, तथा लोचनादिदेव्यो वेदितव्याः सत्त्वार्थायेति / अत्र नाभाववधूतीमार्गे उष्णीषे च होःकारमाद्यन्ते देवतायां विन्यस्य ततो ललाटे कायवज्रं ॐ, कण्ठे वाग्वज्रम् आः, हृदये चित्तवजं हूँ-एवं कायवाञ्चित्त समुद्भूतं चन्द्रसूर्यराहुलक्षणं कालाग्निना अध ऊवं प्रज्ञारश्मिभि"तं प्रज्ञारागद्तमिति, प्रज्ञा चण्डाली तया द्रुतम् / १२अत्र द्विधा चोदना-एका प्राणनिष्पत्तये, द्वितीया षोडशवर्षावधेः सुखनिष्पत्तये / तेन शशिनमिव द्रुतं वत्रिणं चेक्षयित्वा चकारात् प्रज्ञामपि, सप्रज्ञमवधूतीशविन्याश्रितं चित्तं ज्ञानवर्ज १.च. लस्यो। 2. ग. च. भो. बालस्य / 3. ग. प्रतिबो, च. बोधाश्चा। 4. ग. च. भो. लस्य / 5. भो. स्वाभावात्मको / 6. भो. gSun rDo-rJe ( वाग्वज्रम्)। 7. ग. श्रीमूल। 8. भो. 'साधनपटले' नास्ति / 9. म. वीक्ष यित्वा / 10. प. भो. संभूतं / 11. भो. Su Ba सर्वत्र 'द्रुतम्' इत्यत्र 'द्रवम्' पाठः / 12. ग. तत्र / 13. छ. चक्षुयित्वा /