________________ पटले ] देशकाध्येषकमूलतन्त्रलघुतन्त्रसम्बन्धोद्देशः भूषितं त्रिःप्राकारवेष्टितम् / तदर्द्धन ज्ञानचक्रम्, षोडशस्तम्भोपशोभितम् / एतदर्द्धनाष्टदलकमलम्, कमलत्रिभागा कणिका। एवं कायवाञ्चित्तमण्डलानि सर्वलक्षणपूर्णानि हारार्द्धहारसंयुक्तानि / रत्नपट्टिकावेदिका वकुलिकासहितानि दर्पणार्द्धचन्द्रघण्टा - विराजितानि / अस्मिन् त्रिमण्डलात्मके मण्डलगृहे फाल्गुनपूर्णिमायां सूर्यरथप्रमुखानां साद्ध त्रि- 5 कोटीनां ब्रह्म-ऋषीणां यशोराज्ञा नियमो दत्तः- "हे सूर्यरथादयो ब्रह्म-ऋषयः शृणुत, मम वचनं सर्वज्ञसम्पत्करम् / इह चैत्रपूणिमायां मया युष्माकं वेदस्मृतिनियमपालकानां शासनं दातव्यम् / तेन ये नानादेशान्तरे कूलीना ब्राह्मणास्ते पृथक कृत्वा भवद्भिर्माम् दर्शनीयाः"। तेन वाक्येन नानादेशप्रचारेण विचार्यमाणाः परस्परविरोधेन सर्वेऽपि ते पतिताः कापालिकभक्तगोमांसमहिषमांसभक्षणेन मद्यपानेन मात्रादिग्रहणेन देशव्यवहा- 10 रेण / एवं तेषां विरोधं दृष्ट्वा यशो राज्ञोक्तम् - "इह मयास्मिन् कालचक्रभगवतो मण्डलगृहे प्रवेशः कर्तव्यो युष्मभ्यो लौकिकलोकात्तराभिषेको दातव्य इति / अन्यच्च ममाज्ञया भवद्भिवज्रकुलेन सार्द्ध खानपानं कर्तव्यं विवाहसम्बन्धश्चेति / अथ ममाज्ञां यूयं न कुरुत तदास्मदीयान् षण्णवतिकोटिग्रामान्* त्यक्त्वा यत्र कुत्र[15b]चिद्भवतां प्रतिभावि (ति) तत्र भवन्तो गच्छन्तु / अन्यथाष्टशते वर्षगते सति युष्मत्पुत्रपौत्रादयो 15 म्लेच्छधर्मे प्रवृत्ति कृत्वा सम्भलादिषण्णवतिमहाविषयेषु म्लेच्छधर्मदेशनां करिष्यन्ति / म्लेच्छदेवताविषविल्वा (विस्मिल्लाह)मन्त्रेण कत्तिकया ग्रीवायां पशुं हत्वा ततस्तेषां स्वदेवतामन्त्रेणाहतानां पशूनां मांसं भक्षयिष्यन्ति, स्वकर्मणा मृतानां मांसमभक्षं करिष्यन्ति, सोऽपि धर्मो युष्माकं प्रमाणम्, “यागाधेयशवः' (यागार्थाः पशवः) सृष्टाः" इति स्मृतिवचनात् (मनु०, 5 / 39) म्लेच्छधर्मवेदधर्मयोविशेषो नास्ति प्राणातिपाततः / 20 तस्मात् युस्मत्-कुले पुत्रपौत्रादयः तेषां म्लेच्छानां प्रतापं दृष्ट्वा संग्रामे मारदेवतावतारं वाऽनागतेध्वनि अष्टवर्षशते गते सति म्लेच्छा भविष्यन्ति / तेषु म्लेच्छेषु जातेषु सत्सु षण्णवतिकोटिग्रामनिवासिनोऽपि चतुर्वर्णादयः सर्वे म्लेच्छा भविष्यन्ति, “महाजनो येन गतः स पन्थाः" इति (म०भा०, व०प०अ० 313, श्लो० 117) ब्रह्म-ऋषिवचनात् / इह म्लेच्छधर्मे वेदधर्मेऽपि देवतापित्र(त्र्य)) प्राणातिपातः कर्तव्यः, क्षत्रधर्मेऽपि च, “तर्पयित्वा 25 पितॄन देवान् खादन् मांसं न दोषभाग्” इति (याज्ञ०, आचा०, 179) ब्राह्मणवचनात्; तथा "दोषं तत्र न पश्यामि यो दुष्टे दुष्टमाचरेत्" इति / 1. क. चन्द्रचन्द्रघण्टा / 2. वा. सम्पतकर; क. सम्यकतरं भो. Phun Sum Tshogs Pa Byed Pa (सम्पत्करं)। 3. ङ. बाह्यन / 4. ख. भाति / 5. ख. प्रकृति / 6. ख. विषविल्वा, भो. Bi Si Milla (विषिमिल्ला)। 7. ख. तत्र / 8. ख. यागाधेयशवः ; घ. यागार्थे पशवः / 9-11. घ. संग्राममारदेवतावतारं / 7. घ. ङ. च / *. घ. पुस्तके पायशः 'षण्णवति' स्थाने 'नवति' इति पाठः /