________________ विमलप्रभायां [ लोकधातुअनन्तविजयः कल्की यशः कल्की ततः पनः / तस्य पुत्रो महाचक्री रौद्रकल्की भविष्यति / म्लेच्छधर्मान्तकृद्वाग्मी परमा(मः] स्व' समाधिना / / येन सूर्यरथादीनां वाग्मी शास्ता भविष्यति / सुचन्द्र मूलतन्त्रे त्वं तेन सङ्गोतिकारकः / / टीकाका रस्त्वमेवात्र सत्त्वानां परिपाचकः / लघुतन्त्रे मञ्जुघोषः' टीकाकारोऽब्जधृक् स्वयम्" / / इति / मूलतन्त्रे यथोक्तक्रमेण बोधिसत्त्वाः क्रोधराजा व्याकृताः, षण्णवतिग्रामकोटोनां चक्रवत्तिनो मन्त्रनये देशकास्तथागतेन व्याकृता इति / अतस्तथागतनियमात् द्वादश10 साहसिकं मूलतन्त्रराजम्, सम्भलादिविषयभाषान्तरः पुस्तके लिखित्वा षष्टिसाहस्रिकां टीकाञ्च' सुचन्द्रराज्ञा षण्णवतिकोटिग्रामनिवासिभ्यः प्रकाशितम् / एतदेव तदधिमुक्तः / सत्त्वैः श्रतं वाचितं धारितं स्वचित्ते, परेभ्यश्च विस्तरेण संप्रकाशितम्। अतस्तन्त्रदेशनाकालात द्वितीयवर्ष मण्डलचक्र-ऋद्धि दर्शयित्वा निर्माणकायेन यस्मादागतः, तत्रव सम्भोगकायेन गतः, सत्त्वानां सिद्धिहेतवे। ततः सुरेश्वरेण वर्षशतं यावत् तन्त्रदेशना 15 कृता; एवं तेजिना सोमदत्तेन सुरेश्वरेण विश्वमूतिना सुरेशानेन च / अस्य सुरेशानस्य खगर्भस्य निर्मितकायस्य विश्व'मातादेवीगभं मञ्जुश्रीर्यशो राजाऽभूत्, तस्मिन् बोधिसत्त्वसिंहासने धर्मदेशको वर्षशतं यावत् / ततो वर्षशते पूर्णे सति तथागतव्याकरणाधिष्ठानबलेन ऋषीणां परिपाचनाकालं दृष्ट्वा पञ्चाभिज्ञाबलेन सन्मार्गलाभं ज्ञात्वा यशोराज्ञा नियमं दातुकामेन सर्वषामामन्त्रणं कृतम् / 20 कलापग्रामदक्षिणेन मलयोद्यानं द्वादशयोजनायाम कलापग्रामतुल्यम् / तस्य पूर्वेण उपमानसं' सरं' द्वादशयोजनायामम्, पश्चिमेन पुण्डरोकसरं तद्वत्प्रमाणम् [15a] / तयोर्द्वयोर्मध्ये मलयोद्यानम् ' ' / मलयाद्यानमध्ये 2 सुचन्द्र राज्ञा कृतं. कालचक्रभगवतो मण्डलचक्रं पञ्चरत्नमयपरिघटितदेवतादेवत्यात्मकं चतुरस्रं चतुःशतहस्तायामम् / बाह्ये कायमण्डलं चतुरस्रं चतुरि चतुस्तोरणश्मशानाष्टविभूषितं पञ्चप्राकारवेष्टितम् / 25 बाह्ये पृथिव्यादिचतुर्वलयवज्रावलोभूषितम्, वजावलिपर्यन्तं अष्टशतहस्तायामम् / कायमण्डलार्द्धमानमध्ये चतुरस्रं वाङमण्डलम्, चतुरस्र४ चतुरं चतुस्तोरणभूषितम्, पञ्चप्राकारवेष्टितम् / वाङ्मण्डलार्द्धमानं '5 चित्तमण्डलं चतुरस्रं चतुभरं चतुस्तोरण 1. ख. ०श्च / 2. क. सूरथा०; ख. सूर्यादी०; भो. Ni Mahi (सूर्य)। 3. क. ख. ग. शास्त्रा। 4. घ. पुस्तके नास्ति / 5. घ. मजुवज्रश्च ; खा. च / 6. घ. नवतिक्रम० / 7. सा. सिकं। 8. घ. पुस्तके 'टीका' इति नास्ति / 9. घ. पुस्तके 'विश्व' इति नास्ति। 10-11. भो. Ne Bahi Yid Kyi mTsho(उपमानसंसरं)। 11-13. घ. पुस्तके 'मलोद्यानम् मलयोद्यानमध्ये' इति नास्ति / 14. क. ख. ग. ङ. पुस्तकेषु नास्ति / 15. घ. पस्तके 'मानं' इति नास्ति /