________________ 240 विमलप्रभायां [अध्यात्म विहीनम्, किन्तु यावत् पिष्टिकाऽस्ति तावत् तया सार्द्धम् / पश्चात् तया विना सर्वकालमिति रसायननियमः। इदानी भक्काद्युपभोगाय हेमाद्धिकमाह पूर्वोक्तमित्यादिनापूर्वोक्तं बोजराजं सममपि तु रसे जारित चार्द्धमात्रं क्षाराम्लैमर्दयित्वा बहु विविधविडैर्यावदेकत्वमेति / पित्ताम्लर्गन्धकायैः (द्यैः) दरदमपि शिलां मर्दयेत् सूततुल्यं तल्लेपात् तारपत्रं व्रजति कनकतां पक्ष(क्व)मद्धिकेन // 133 // इह पूर्वोक्तं बोजराज सममपि तु रसे चा(जा)रितं चाद्धमात्रम्, क्षाराम्लैमर्दयित्वा बहु विविधविडैर्वक्ष्य[142b]माणैर्यावदेकत्वमेति / ततः पित्ताम्लै'गन्धकाद्यैः२ दरदमपि 10 शिलामिति इह रसक्रामणाय त्रीणि द्रव्याणि रसतुल्यानि रसेन साद्धं पित्ताम्लै 'मर्दयेत् / गोपित्तं मत्स्यपित्तं वा फलाम्लं वा यथालब्धं बोजपूरकाद्यम्, गन्धकम्, दरदम्, शिलाम्, तालकम्, शशकम, काक्षी, काशीषं, तुत्थकम्, हेमगिरिकम् एषां गन्धकादीनामुपरसद्वयम्, महारसं एकम्, त्रीणि रसतुल्यानि / तस्य लेपात तारपत्रं दिनत्रयं चुल्लिकाधः स्थापितं व्रजति कनकतां पक्वं चुल्लिकाग्निना, अद्धिकेन हेम्ना। इति हेमाद्धिक15 नियमः। इदानीं पुष्पक्रियोच्यते तीक्ष्णमित्यादिनातीक्ष्णं चाकाशजातं त्वललवणयवक्षारसर्ज क्रमेण वृद्धं चार्के द्विगुण्ये समरसकरणाद् दाहयेदकशेषम् / भूयः क्षारेण शुद्धं भवति मृदु तथा गोमयाचे निषिक्तं तारे दत्तं त्रिभागं हृतमपि भरितं शुद्धपुष्पत्वमेति // 134 / / इह पुष्पशब्देन ड(द्र)म्मरूपक द्रव्यमुच्यते / तीक्ष्णं तारेण ताडितं भरितं चेति, तस्येयं दलशुद्धिः। तीक्ष्णमाकाशजातमित्यभ्रकसत्त्वम् / अलमिति तालकं लवणं सैन्धवम्; यवक्षारम्, सर्जरसम्; तोक्षणाद्यं क्रमेण वृद्धमिति एकद्वित्रिचतुःपञ्चषड्भागं यावत् / ततः सर्वमेकीकृत्य अर्के ताने द्विगुणे समरसकरणात् प्रथममन्धमूषायां धमेत्; 25 ततः प्रकटमूषायां वा(दा)हयेद कशेक(शेष) यावद् भवति / भूयः क्षारेण टङ्गणक्षारेण शुद्धं भवति, मृदु तथा गोमयाचे निषिक्तमिति गोमयं गोतक्रम्, आवितः अर्कमूलम्, वज्रीकनकमूलम्, एरण्डमूलम्, क्षीरकञ्चुकीमूलम्, पोषयित्वा सन्धान कारयेत्, सप्ताह यावत् ; ततस्तस्मिन् तक्रेनिषेकं दद्यात् यावन्मृदुर्भवति। तदेव तारे दत्तं विभागं हृतमपि भरितं वा शुद्धपुष्पत्वमेति / इति पुष्पदलनियमः। 1. क. पित्ताद्यः। २.ख. गन्धकायः / 5. भो, bSreg Par Bya (दाहयेत्)। 3. क. ख. पक्षं। 4. क. रूषक / / ६.मो. Lhag Ma(शेवम)।.