________________ पटले ] . अरिष्टमरणलक्षण-नाडीच्छेद-महोद्देशः 207 इदानीं चन्द्रसूर्यचारक्षयेण कालवृद्धिरुच्यते षट्त्रिंशद्भिरित्यादिनाषट्त्रिंशद्भिः सहस्र ध्रुशतदिनगणे रोहते कालनाडी यां यां सूर्येन्दुशक्तिदिननिशिसमये पूरितं स्वस्वचारैः / सूर्याऽहः सूर्यचारे त्वृणमपि च भवेच्चन्द्रचारे तदर्द्ध नक्षत्राहः प्रभेदै रविशशिचरणं शून्यमासे च मृत्योः // 70 // इह वर्षशते दिनगणे कृते षट्त्रिंशतसहस्रदिनानि भवन्ति / धरिति वर्षसंज्ञा, तैः षट्त्रिंशद्भिः सहस्र ध्रुशतविनगणै रोहते कालनाडी, मृत्युः नाडीषु वर्द्धते द्वासप्ततिसहस्रेषु मृत्युवायुः प्रविशति / पञ्चमण्डलवायुः क्रमतोऽपसरति षष्ठांशं' तत्र स्थापयित्वेति / कां रोहते कालनाडीवायुः ? यां यां पूरितं सूर्येन्दोर्न शक्तिदिननिशिसमये स्वस्वचारैनक्षत्रचारेण सूर्यस्याशक्तिरिति, तिथिचरणैश्चन्द्रस्याशक्तिरिति[121a]। 10 सूर्याऽह इति द्वादशदिनानि सूर्यचारे त्वृणमपि भवेच्चन्द्रचारे तदद्धं षड्दिनानि / अत्र प्रतिमासे त्रिंशद्दिनन्न राशिमेकं सूर्यश्च रति, न चन्द्रः षष्टिदण्डानिति द्यौ चरति / अतो नक्षत्राहःप्रभेदै रविशशिचरणं शून्यमासे च मृत्योः, तयोर्यत्राशक्तिः स शून्यमासो द्वात्रिंशन्मासान्ते, स च चतुःषष्टीनाड्यात्मक इति / तासु चतुःषष्टिनाडीषु शून्यवायुः प्ररोहते, नाभिकमले द्वासप्ततिसहस्राणां मध्ये प्रत्यहं नाडीद्वयं रोहते इति सामान्यश्छूल- 15 * (स्थूल)नियमः। इदानीं प्रत्यहं श्वासभेदेनारोहणमुच्यते प्राणा इत्यादिनाप्राणा देहेऽधिका ये प्रकटितविषुवे वेदपादोनषष्टिः सर्वे संक्रान्तिभेदैः प्रतिदिनसमये नाडियुग्मं निहन्ति / भूयो भूयोऽब्दमध्ये रविशशिचरणात् शून्यनेत्राद्रिसंख्या . एवं कालः शताब्दैः क्रमति सुरनृणां स्वायुषं स्वस्वमानैः // 71 // इह षट्शताधिककविंशत्सहस्राणां मध्ये ये ज्ञानमण्डलवाहिनो भवन्ति ते देहे श्वासाधिका इत्युच्यन्ते / प्रकटितविषुवे उभयलग्नमध्ये पादे वेदोनषष्टिः सपादषट्पञ्चाशदिति; ते सर्वे द्वादशसंक्रान्तिभेदैः पञ्चसप्तत्यधिकपुटशतं भूत्वा प्रतिदिनसमये नाडीयुग्मं निहन्तीत्यागमपाठः; घ्नन्तीति रूपम् / इदं नाडीयुग्मं वामे दक्षिणे द्वासप्तति- 25 नाडीसहस्राणां मध्ये नाडीयुग्मं घ्नन्ति पञ्चमण्डलवायुसञ्चारविनाशो भवतीति / शेषाः पञ्चचत्वारिंशच्छ्वासाः तिष्ठन्ति भूयो भूयोऽब्दमध्ये; एवं प्रतिदिनं नाडी युग्मं हन्यमाना ऽन्दमध्येऽब्ददिनैः षष्ठ्युत्तरत्रिशतदिने रविशशिचरणात् दक्षि[ण]वाममण्डलसञ्चारात् / 1. Drug Cuhi Cha Sas (षष्टयशं)। २.ख. तदुवं / 3. क. श्वासादिका / 4. ख. पूर्वे /