________________ 206 विमलप्रभायां [ अध्यात्मकालवर्ष हि यस्मात् तस्मादेवाशीत्युत्तरसहस्रदिन'क्षयस्तयोर्वेदितव्य इति त्रिवर्षनाडीच्छेदो व्यञ्जनानामिति नियमः / ___ ततः छिन्नेऽब्दे सति पक्षमध्ये पञ्चवत्वारिंशत् ह्रस्वदीर्घप्लुतस्वरधर्मेण स्वरदिवसवशात् पञ्चचत्वारिंशद्दिनवशाद् रोहणं च मृत्योः सूर्यभेदेन सूर्यस्य, चन्द्रभेदेन चन्द्रस्य / रोहणमिति कण्ठे अष्टाविंशद् दिनानि, ललाटे चतुर्दशदिनानि पूर्वोक्तानि, गुह्ये त्रिदशकमिति त्रिंशद् दिनानि, ततः कण्ठे दिनचतुष्टयम्, ललाटे दिनद्वयं जीवितस्य त्रिरात्रम् / अपरमत्र स्वरच्छेदे तिथिः षट्पश्चाशद्दण्डात्मिका ग्राह्या। एवं पञ्चचत्वारिंशत्तिथयः स्वरधर्मिण्यः, तिस्रः शून्यधर्मिण्य इति व्यञ्जनधर्मऽप्येवं दिनद्वयम् / एतासु दिनाष्टकं हृदयकमले आरोहते, ततो दशवायूनां समाहारः। 10 कणिकायां निःश्वासोच्छ्वासचक्रस्य यावद् हानिर्दिननिशिसमये जीवितस्यैकरात्रं भव तीति / ततः कर्मवशादन्यत्र विज्ञानसंक्रमणमिति नियमो मध्यमामरणे सति प्राणिनां शतायुषामिति नाडीच्छेदनियमः / इदानीं निर्माणचक्रादिषु षट्दिनावधेर्मरणादवशेषनाडिका दशवायुवाहिन्य उच्यन्ते नाभावित्यादिना नाभौ कण्ठे ललाटे स्वहृदयकमले नाडिकाः सावशेषास्तिष्ठत्यर्को रसोऽग्निः स्वहृदयकमले सार्द्धनाडी तथैव / पाणेः पादस्य सन्धौ तिथिगुणितयुगाः षड्दिनं यावदेव अन्ते सर्वत्र सूक्ष्मा प्रवहति दिवसं च त्यजन्ती हृदब्जम् // 69 // इह नाभिचक्रे बाह्यमण्डलवाहिनी नाडीक्षयपरित्यागात् त्रिवर्षीय त्रिपक्षरो20 हणे व्यञ्जनारोहणे षड्दिनं यावद् द्वादशराशिनाड्यः शून्यमण्डलपृथिवीमण्डलात्मिकाः ____ श्वासचारेणावतिष्ठन्ते(ते) अर्क इति / एवं कण्ठे षण्मुहू[120b]र्त्तवाहिन्यो, रस इति / T 315 चन्द्रस्यार्द्धप्रहरवाहिन्यः तिस्रो ऽग्निरिति / हृत्कमले प्रहरवाहिनी सार्द्धनाडी स्वहृदय कमले साद्ध'नाडी तथैव सावशेषा इति / पाणेः पादस्य सन्धाविति षष्ट्युत्तरत्रिशत नाडीमध्ये कर्मचक्रे क्रियाचक्रे सन्धिषु / तिथिगुणितयुगा इति षष्टिनाड्यो दशवायुवा25 हिन्य इति / द्वादशसन्धीनां प्रत्येकसन्धौ पञ्चपञ्चनाड्यो दशवायुवाहिन्य इति शेषाः / कालमृत्युर्वायुर्महातमो धर्मो क्रियाचक्रे षष्टिसन्धिषु एकैकनाडी दशवायुवाहिनी पञ्चपञ्चकालमृत्युमहावायुवाहिन्य इति; एवं षड्दिनं यावत् / ततः षड्दिनैरिन्द्रियविषयनाडीक्षयं कृत्वाऽन्ते मरणदिने सर्वत्र सूक्ष्मा मध्यमावधूती वहति चन्द्रसूर्यविण्मूत्रवाहिनीं त्यक्त्वा महातमः कालवायुर्मरणान्तं वहति यावत् श्वासचक्रक्षयो भवतीति नियमः / दिवसं च 30 त्यजन्तीति हृदब्जमिति / एवं सूर्यचन्द्रारोहणनाडी व्यञ्जनकर्मक्रियाचक्रावशेषनाडी श्वासच्छेदकालमरणनियमो भगवतोक्तः / १.क. ख. दिनकर / 2. क. ख, अर्घ / 3. क, ख, त्रिशो। 4. क. ख. कर्म /