SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ 198 विमलप्रभायां [ अध्यात्म सत्त्वधातुः, पित्तनाडीक्षयो रजोधातुः, वातना डीक्षयस्तमोधातुरित्युच्यते। त्रयस्त्रिशद्दिनारोहणेन' त्रयस्त्रिशत्संक्रान्तिदिनैरिति / उभया(य)राशिसंक्रान्तिसंकलितदिनविंशदधिकैकादशशतदिनानि भवन्ति त्रिवर्षत्रिपक्षदिनत्रयोनानामिति पञ्चमण्डलसत्त्वरजस्तमोनाडी(डि)काच्छेदः। प्राणवायोः स्थानपरित्याग इति / एवं सार्द्ध मासं हि यावत् त्रिवर्षदिनानि प्राणारोहणेनेति / ततस्त्रिदशकमपरं गर्भाधानमासदि[114b]नगणं त्रिंशदिनात्मकं जीवितस्य त्रिरात्रं यावदिति दक्षिणानाड्यामारोहणं सर्वसंक्रान्त्यभावः, त्रयस्त्रिशद्दिनानि यावत् स्कन्धधातूनां विच्छेदः। अत्र रूपादयः पञ्च स्कन्धाः, पृथिव्यादयः पञ्च धातवः, कायेन्द्रियाणि पञ्चेन्द्रियाणि, गन्धाद्याः पञ्च विषयाः, गुदाद्यानि पञ्च कमन्द्रियाणि, आलापादयः पञ्च कर्मेन्द्रियविषयाः, एतेषां त्रयस्त्रिशद्दिनैः च्छेदो भवति परस्परसंयोगाभावः, ततः एकदिनं मध्यमायां विशति श्वासचक्रक्षयार्थम् / षष्ठः स्कन्धः, षष्ठो धातुः, षष्ठमिन्द्रियम्, षष्ठो विषयः, षष्ठं कर्मेन्द्रियम्, षष्ठकर्मेन्द्रियविषयः, शुक्रच्युतिमरणान्ते भवतीति स्कन्धधात्वायतनविच्छेदनियमः। T31 15 इदानीं जातकानां मृत्युश्वासारोहणमुच्यते श्वासानित्यादिनाश्वासांल्लिप्तांश्च नाडी दिननिशिसमयान् रोहते संक्रमण सप्ताब्देश्चायनाङ्गादयनगतिवशात् षष्टिसंवत्सरैश्च / त्रिंशद्वस्त्रिमासान् दिवसगतिवशात् कालवर्षेश्च पक्ष त्रिंशत् सार्द्धभक्तर्भवति दिनगणै रोहणं कालचक्रात् // 66 // इह शरीरे श्वासचक्रं लिप्ताचक्रं घटिकाचक्रं दिनचक्रं यथा बाह्ये तथा देहेऽपि / 20 तत्र षट्श्वासात्मकं श्वासचक्रम्, षष्टिपाणीपलात्मकं पाणीपलचक्रम्, षष्टिघटिकात्मकं घटिकाचक्रम्; अशोत्युत्तरसहस्रदिनात्मकमरिष्टचक्रम्, षट्पञ्चा(श)दधिकैकादशशतदिनात्मकं कालमृत्युदिनचक्रमिति / एषु चक्रेषु मृत्युः श्वासरूपेण पाणीपलस्वभावेन घटिकास्वभावेन दिनस्वभावेनारोहति वामनाड्यां दक्षिणनाड्यां यथासंख्यमेकोत्तरेण / प्रथमं तावत् श्वासानारोहते / सप्ताब्दैश्चायनांका(ङ्गा) दिति / इहोत्पन्नस्य यस्यारिष्टं 25 वर्षशतावधेर्नास्ति कालमरणं भविष्यति, तस्यायनद्वयं वाम[115a]नाड्यां दक्षिणनाड्यां पञ्चमण्डलवाहकः प्राणवायुर्वहति। ततस्तृतीयेऽयने वामनाड्यामाकाशमण्डले एकश्वासमारोहते, चतुर्थे न आरोहते, ततस्तृतीयवर्षे पश्चमेऽयने दक्षिणनाड्यां पृथिवीमण्डले श्वासद्वयमारोहते, पुनः षष्ठेऽयने न आरोहते। ततः सप्तमेऽयने १.ख. रोहणे। 2. क. ख. वयोमानमिति / 3. क. सा. त्रिवर्षादिना; भो. LogSum Gyi Nin Sag rNams ( त्रिवर्षदिनानि)। 4. क. ख. विंशति / 5. क. ख. चक्रकुर्यार्थम् / 6. ग. स्कन्धार्थः। 7. क. त च / 8. भो, Yan Lag Las (अङ्गात्) /
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy