________________ विमलप्रभायां लोकधातु- . एवं सर्वेषु खण्डेष्वपि युगसमयो म्लेच्छधर्मप्रवृत्तिवर्षास्तै(ष्ट)कशतं वै स्थितिरपि च ततो म्लेच्छधर्मस्य नाशः / तस्माद् विंशत्सहस्रं करशतरहितं बुद्धधर्मप्रवृतिः कृत् त्रेता द्वापरं वै वहति कलियुगं शक्तिमानेन भूम्याम् // 169 / / उत्पत्तिर्लोकधातोर्ग्रहचरणसमा सम्भवश्चक्रिणश्च म्लेच्छानां धर्मनाशः परमसुखपदे कल्किनो मार्गदानम् / एतत् सर्वं यथार्थं कथितमपि मया ते सुचन्द्र त्रिकालाद् भूयः किं पृच्छसि त्वं सकलजनहितार्थं च मां मोक्षहेतोः / / 170 // इति श्रीमदाविबुद्धोधृते श्रीमहाकालचक्रे लोकधातुविन्यासः प्रथमपटलः // 1 //