________________ पटले म्लेच्छधर्मोत्पाटनबुद्धधर्मप्रतिष्ठापनमेवादि खण्डै योजनानां वसुदलसहितं पञ्चविशत्सहस्रं कैला(स)शस्तस्य मध्ये वरहिमगिरिणाऽऽवेष्टितः सर्वदिक्षु // 150 // भूमौ कैलाश(स)खण्डं हिमगिरिसहितं तत्रिभागं समन्तात् बाह्य चैकैकपत्रं दिनकरविषयैर्भूषितं द्वीपदेशैः / सव्याः सम्भलाख्ये मुनिवरनिलयं ग्रामकोट्याधिवासं कोटिग्रामैनिर्बद्धो भवति हि विषयो मण्डलं ग्रामलक्षः // 151 // एकद्वित्र्यब्धिभेदैः शररसविजनैः पञ्चलोकादिभेदैभिन्नश्चक्री नरेन्द्रो भ्रमति भुवि तलेऽन्वेषणोयः स विज्ञैः / चक्री चार्ली च खण्डी विषयनरपतिः मुद्रहस्तस्ततोऽन्यः बाह्ये कालस्य भेदः खलुः भवति यथा लोकनाथस्य तद्वत् // 152 // 10 सप्ताब्ध्यद्रिवारा मुनय इह तथा सात्विका दिव्ययोनिमत्स्यः' कूर्मो वराहो नरहरिसहितो वामनो यामदग्निः / रामः कृष्णस्तथाष्टौ दनुकुलभयदा राजसा भूतयोनि-२ द्वात्रिंशद् विष्टरान्ते भवति दनुरिपुश्चक्रपाणिः शतायुः // 153 // आद्रोऽनोघो वराही दनुभुजगकुले तामसान्येऽपि पञ्च म्लेच्छोऽसौ श्वेतवस्त्री मधुमतिमथनी योऽष्टमः सोऽन्धकः स्यात् / सम्भूतिः सप्तमस्य स्फुटमखविषये वागदादौ नगर्यां यस्यां लोकोऽसुरांशो निवसति बलवान् निर्दयो म्लेच्छमूर्तिः // 154 // उष्ट्राश्वौ गाश्च हत्वा सरुधिरपिशितं शुद्धपक्वं हि किञ्चित् गोमांस सूततोयं घृतकटुकसमं तण्डुलं शाकमिश्राम् / 20 एकस्मिन् वह्निपक्वं नवफलसहितं यत्र [84b] भोज्यं नराणाम् पानञ्चाण्डं खगानां भवति नरपत तत्पदं चासुराणां / / 155 / / बिन्दुः शक्त्याञ्जनेयो गरुडसुरसरिन्नारदः कामधेनुः दुर्गा विद्वत्सु विद्याक्षरपरमकलादिव्यभाषाशरीराः / एते सञ्चाररूपैरवतरति विभुनिकायो जिनस्य __भूतं भव्यं भविष्यत् प्रवदति सकलं वेदतर्कादिशास्त्रम् / / 156 / / 1. क. पुस्तके नास्ति, भोटानुवादादुपलब्धपाठाच्च पूरितः / 15 T20