________________ लोकधातु 140. विमलप्रभायां कुम्भा॰ [84b] मीनार्के' ईशाने मेषे वृषभा॰३ उत्तरे, वृषभा॰ मिथुने वायव्ये / ततो वारुण्यादग्निमन्द(न्त)मिति दक्षिणायनस्थिते अर्के रुद्रो दक्षिणे व्रजति कर्कटे, सिंहाढे वारुण्ये, सिंहार्द्ध कन्यायां नैऋत्ये, तुलायां वृश्चिकाढे, याम्ये वृश्चिकाढे, धनुष्याग्नेय्यामिति रुद्रोदयनियम. इत्यादिमासरुद्रः पक्षरुद्रो दिनरुद्रः कालरुद्रः षट्प्रकारा निरय सरुद्रो दिनरुद्रः कालरुद्रः षट्प्रकारो निरर्थकस्तेन 5 नोक्त इति / इदानीमर्द्धप्राहारिक राहुबलमुच्यतेपूर्वादर्द्धप्रहरात् प्रविशति पवने दक्षिणे याति तद्वत् ईशे तोयेऽग्नियक्षे ब्रजति दनुपुरे मारुतेऽर्केऽस्तमेति / त्यक्त्वा श्रीमूलराहुं प्रभवति विजयी मारुतोऽप्यङ्कयुद्धे 10 संग्रामे मूलराहुर्घसति रिपुबलं तेन तुल्योऽस्ति नान्यः // 122 // अत्र सप्तवारेषु आदित्योदये पूर्वात् पूर्वदिग्भागतः, अद्धप्रहरादूर्ध्व प्रविशति पवने, ततोऽपरार्द्धप्रहरान्ते दक्षिणे याति, भूयोऽपरार्द्धप्रहरान्ते इ(ई)शें व्रजति, ततोऽपरप्रहरार्द्धान्ते वारुण्यां व्रजति, ततोऽपरप्रहरार्द्धान्ते आग्नेय्याम्, ततोऽपरप्रहरार्द्धान्ते यक्षे, ततोऽपरप्रहरार्द्धान्ते नैऋत्यां विशतीति नियमोऽष्टदिक्षु आदित्योदयादित्यास्तमनं 15 यावदिति / एवं रात्रौ ज्ञेयः / त्यक्त्वा श्रीमूलराहुं प्रभवति विजयो अयं मारुतोप्यङ्क युद्ध', द्वयोर्योधयोयुद्ध; संग्रामे पुनः मूलराहुर॑सति रिपुबलं तेन तुल्योऽस्ति' नान्यो' 4 राहुरस्ति'५, मासादिराहूणां मध्ये इति नियमः / इदानीमङ्कयुद्धे योधबलमुच्यते मात्राहीनस्तु योधः समविषमरणे हन्यते चाधिकेन 20 श्वासे नामद्वयोर्यत् प्रविशति हृदयं तस्य युद्धे जयः स्यात् / दूतेनोक्तादिनामा प्रभवति विजयी हन्यते पृष्ठनामा . आर्यवर्णैः स्वराद्यैः समविषमगतैर्निष्फलादेश एव // 123 // मात्राहीनस्तु योधः समरणेऽङ्कयुद्धे विषमरणे उभयबलसंग्रामे समविषमरणे हन्यते चाधिकेन, अधिकमात्राक्षरनाम्ना' इति / ह्रस्वमात्री दीर्घमात्रिणा हन्यते, दीर्घमात्री 25 प्लुतमात्रिणा हन्यते, न पुनरपरपरनिमित्तम् / श्वासे नामद्वयोर्यत् प्रविशति हृदयं तस्य युद्ध जयः स्यात् / यस्य श्वासे नाम निर्गच्छति बाह्ये स म्रियते / अपरप्रयोगः दूतेनोक्तादिनामा प्रभवति विजयी हन्यते पृष्ठनामेति नियमः। आयैरिति ध्वज-धूम-सिंह-श्वान-वृष-खरगज-ध्वांक्षा इत्यार्याः वर्णाः, श्याम-गौर-रक्त-कृष्णाः, तथा ब्रह्म-क्षत्रिय-वैश्य-शूद्राः, स्वरा 1. घ. मीनके / 2-3. मेषवृषभार्धे / 4-5. ग. अद्ध रुद्र / 6. ग. इदानीमर्थद्ध; घ. प्राहारत् / 7. घ. प्रहरान्ते / 8. घ. नैऋत्ये / 9. ग. निसमो / 10. ग. अष्टदिषु / 11-12. ग. मारुतोऽप्यङ्कयुद्धोयेधम्मोयुद्धे। 13-14. घ. ०अस्ति नास्ति। 15. ग. राहुर्नास्ति / 16-17. घ. अक्षराणामेति / १८.ध. पुनरपरनिमित्तं / -