________________ पटले] स्वरोदययन्त्रविधिनियममहोद्देशः इदानी ब्रह्माण्यादियोगिनीबलमुच्यतेब्राह्मी रौद्री कुमारी खगपतिगमना शूकरी वज्रहस्ता चामुण्डा चैव लक्ष्मीर्भवति वसुतिथावादितिथ्यां नवम्याम् / शके यक्षेऽग्निकोणे दनुयमवरुणे मारुते चेशभूमौ कुर्वन्त्यत्रोदयं ताः पुनरपि तिथिषु द्वयष्टभेदैविभिन्नाः // 120 // 5 ब्राह्मोत्यादि / अत्र शक्लपक्षे कृष्णपक्षे वा प्रतिपदि ब्रह्माणी शक्रे, द्वितीयायां प(य)क्षे' रौद्री, तृतीयायामग्निकोणे कौमारी, चर्तुथ्यां नैऋत्यै वैष्णवी, पञ्चम्यां याम्यां वाराही, षष्ठ्यां वारुणे(ण्ये) ऐन्द्रो, सप्तम्यां वायव्यौ(व्ये) चामुण्डा, अष्टम्याम् ऐशान्ये महालक्ष्मीरिति; वसुतिथौ अष्टतिथौ, आदि प्रतिपदादौ नवम्यामिति / पुनर्नवम्यां ब्राह्मी शक, दशभ्यां रौद्रो प(य)क्षे, एकादश्यां कौमार्यग्नौ, द्वादश्यां वैष्णवी नैऋत्ये, 10 त्रयोदश्यां वाराही याम्ये, चतुर्दश्यां ऐन्द्री वारुण्ये, पञ्चदश्यां पूर्णिमायाममावस्यायाञ्च अर्द्धतिथौ चामुण्डा अर्द्धतिथौ महालक्ष्मीरिति न्यायः / एवमास्वष्टदिशासूदयं कुर्वन्ति, ताः योगिन्यः / पुनरपि प्रतिपदादि तिथिषु पूर्वार्द्ध अष्टभेदाः, अपरा? अष्टभेदाः, एवं द्वयष्टभेदेषूदयन्ति तासु तिथिसु ज्ञेयाः, तासां स्वस्वतिथौ प्रथमाष्टमांशो' भोगः तिथ्याधिपत्याः, पश्चात् यथोक्तक्रमेण सप्तभोगाः सप्तानामिति न्यायः / एवमपराद्धेऽपि तिथौ 15 ज्ञेयमिति योगिनीचक्रोदयनियमः / विष्टीनां शुक्लपक्षेऽप्युदय इह भवेत् . शक्रयाम्याब्धिकोणे कृष्णे पक्षे च भूयः शिखिदनुपवनः चेशकोणे क्रमेण / रुद्रः पूर्वापराद्धं व्रजति दिनवशादुत्तरे चोत्तरेऽर्के वारुण्यादग्निवर्ण (मन्तं) व्रजति सनियतं दक्षिणे दक्षिणेऽङ // 121 / / 20 इदानीं विष्टिबलमुच्यते विष्टोनां शुक्लपक्षे चतुर्थ्यामष्टम्यां एकादश्यां पूर्णमास्यामुदयो यथाक्रमेण शक्रे याम्य(ये) पश्चिमे उत्तरे' च / कृष्णपक्षे तृतीयायां सप्तम्यां दशम्यां चतुर्दश्यामुदयो यथाक्रमेण आग्नेय्यां नैऋत्य वायव्ये इ(ई)शे च इति विष्ट्युदयनियमः। आसां कार्य पूर्वोक्तमिति / इदानीं रुद्रबलमुच्यते रुद्रः पूर्वात् पूर्वदिशातो अपरार्ध वारुण्यां यावत् व्रजति दिनवशात् संक्रान्तिचारवशादिति / उत्तरे वामावर्तेन उत्तराक। उत्तरायणे स्थिते मकरे कुम्भार्दै पूर्वे 1. भो. gNod sByin (यक्षे)। 2. घ. प्रतिपदौ / 3. ग. ब्राह्मणी / 4. घ. स्यां वा / 5. ग. पुनरवै / 6. घ. प्रतिपदौ / 7. ग. ०मांसो / 8. ग. भोग / 9-10. ग. याम्यपश्चिमोत्तरे। 11. ग. उत्तरार्क (सर्वत्र 'क' इति): घ. उत्तरार्को।