________________ 127 पटले] स्वरोदययन्त्रविधिनियममहोद्देशः रिक्तायामकारो वृद्धः, पूर्णायामिकारः, नन्दायामृकारः, भद्रायामुकारः, जयायां लकारः। पञ्चमेऽस्तङ्गताः स्युरिति पूर्णायामकारोऽस्तंगतः,२५ नन्दायामिकारः, भद्रायामृकारः, जयायामुकारः, रिक्तायां लकारः इति स्वराणां पञ्चविध२६ उदयादिभेदो ज्ञेयः२७ / आद्याः पञ्चस्वरा ये खलु गुणगुणितास्ते द्विधा त्रिंशदेव कादौ वर्गाक्षरेषु प्रकृतिगुणवशाद्योजनीयाः समस्ताः / ह्रस्वानां शुक्लपक्षे ह्यु दय इह भवेत् पञ्चतत्त्वप्रभेदैर्दीर्घाणां कृष्णपक्षे भवति स नियतं सृष्टिसंहारयोगात् // 10 // आधाः२८ पंञ्चस्वरा ये खलु [गुण]गुणिताः सत्त्वरजस्[79b]तमो गुणिताः 10 पञ्चदश भवन्ति / ते पुनर्विघा त्रिशदेव, अ इ उ ऋ ल,"अ ए अर ओ अल, ह य र वल इति त्रिगुणा नन्दादयः शुक्लपक्षे; तथा ला वा रा या हा, आल औ आर ऐ आ लु ऊ ऋ ई इति नन्दाद्याः कृष्णपक्षे; एवमुभयपक्षयोस्त्रिशतिथीनां यथासंख्यमिति कादौ वर्गाक्षरेषु प्रकृतिगुणवशाद्योजनीयाः समस्तास्ते२ स्वराः 3 / ह्रस्वानां शुक्लपक्षे ह्य दय इति भवेत् पञ्चतत्त्वप्रभेदैरिति / अत्र यद् व्यञ्जनं 15 ह्रस्वस्वरेणोच्चारितम्, तस्य शुक्लपक्षे ह्यदयः; दीर्घाणां कृष्णपक्षे, एवं यद्दीर्घस्वरेणोच्चारितं दीर्घव्यञ्जनं तस्य कृष्णपक्षे उदयः। अत्र व्यञ्जनविषये सूर्यसंक्रान्तिपक्षो वेदितव्यः, सृष्टिसंहारयोगादिति / सप्तविंशत्तदृक्षं स्फुटश[]टिकाः सूर्यलग्ना नवांशाः एते च त्रिस्वभावाः स्थिरचलसुसमा मेषलग्नादयोऽत्र / मेषः कर्की तुला वै मकर इह चरास्तद् द्वितीया स्थिराश्च शेषाऽन्ये द्विस्वभावा दिननिशिसमये नित्यमेवोदितास्ते // 101 // सप्तविंशत्तदृक्षं सप्तविंशन्नक्षत्रपिण्डम्; तेषु सपादसपादनक्षत्रद्वयेन सूर्यलग्ना द्वादश / स्फुटशर इति पञ्चपञ्चघटिकात्मकास्ते नवांशा इति / एते च३४त्रि३"स्वभावाः स्वराः३६ (चलाः) मेषादयः, स्थिरा वृषादयः,३७ समा द्विस्वभावा मिथुनादयः / मेषः 25 कर्को३८ तुला मकर इति चत्वार स्व[च]राः, वृषः सिंहो वृश्चिकः कुम्भ इति स्थिराः, 24-25. ग. पुस्तके अयमंशोऽस्पष्टः / 26-27. ग. पुस्तके अयमंशोऽस्पष्टः / 28-29. ग. पुस्तके अयमंशोऽस्पष्टः / 30-31. घ. पुस्तके अ इ ऋउ ल इति पाठः / 32-33. ग. पुस्तके अयमंशोऽस्पष्टः / 34-35. ग. पुस्तकेऽस्पष्टम / 36-37. ग. पुस्तके अयमंशोऽस्पष्टः / 38. ग. की /