SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 126 विमलप्रभायां [लोकधातुएवं नक्षत्रवाराः उक्तक्रमेण स्वरगणतिथयः पञ्चतत्त्वप्रभेदैरिति पुनरेवायमुदयः पक्षेमासेऽयनेऽब्देऽपि स्वराणां भवति षष्टिसंवत्सरे' च / अत्र चैत्रादिनोदयः चैत्रादौ मासद्वये" षष्टिदिनानि, तेषु द्वादश द्वादशदिनैः अकारादयो यथा क्रमेणोदयन्ति, शुक्लप्रतिपदादिना चैत्रस्य यावत् द्वितीयमासस्य पुनः शुक्लप्रतिपत् / एवं ऋतुभेदेन" पञ्चस्वराणां षट् परिवर्ताः संवत्सरे भवन्ति / पक्षोदयविषये द्वादशदिनैः पक्षभेद इति एवं संव[79b]त्सरदिनेषु' षष्ट्युत्तरत्रिशतेष्वकारादीनां द्वासप्तत्यो (सप्तत्यादीनां) क्रमेणोदयो ज्ञेयः / स एव चैत्रादि शुक्लप्रतिपदादिमासभेद' एष" इति / एवं प्रभवादिषष्टिसंवत्सरेषु पञ्चस्वराणां यथाक्रम'२ प्रत्येकसंवत्सरस्य - षण्मासैश्चायनाङ्गं प्रभवमुखगदिशाब्दैश्च वर्षम् एवं पञ्चस्वराणामुदय इह भवेच्चास्तमेवं हि भूयः / आदी बालाः स्वराश्च स्वतिथिगुणवशात् श्रीकुमारा द्वितीये प्रौढा वृद्धा क्रमेणाग्निजलनिधिदिने पञ्चमेऽस्तंगता स्युः // 19 // षड्४ मासैरुदयश्चतुर्विंशतिपरिवत्तैः पुनः पूर्वविधिरीत्याऽयनोदयः, प्रभवादी द्वादशसंवत्सरोदयः। एवं परिवर्त्तप्रभवादीनामिति वर्षोदयो ज्ञेयः / 5 एवं पञ्चस्व15 राणामुदय इह भवेत् अस्तंगतं[एवं]हि भूय इति, अत्र पक्षभेदे द्वादशदिनं नन्दा; एवं भद्रादयः मासभेदे द्वासप्ततिदिनं नन्दा, तथा" सदा(भद्रा)दयोऽपि / अयनभेदे अयनं नन्दा; एवं भद्रादयः / वर्षभेदे" द्वादशवर्ष नन्दा, एवं भद्रादयो याति(न्ति) / आदौ प्रथमं स्वरा बालाः स्व"तिथिगुणवशात(इति) आकाशवायुतेजउदकपृथिवीगुणवशात् [च]शब्दस्पर्शरसरूपगन्धगुणवशादिति यथासंख्यम् / अत्र नन्दाया20 मकारस्योदयः, भद्रायामिकारस्य, जयायामृकारस्य, रिक्तायामुकारस्य, पूर्णायां लकारस्य। एवं स्वकीयस्वकीयोदयदिनात द्वितीये दिने श्रीकमाराश्चेति भदायायकारः कुमारः, जयायामिकारः, रिक्तायामकारः, पूर्णायामुकारः२२, नन्दायां लकारः, प्रौढ (ढाः)वृद्धः (खाः) क्रमेणाग्निजलनिधिदिन इति स्वकीयदिनादग्निरिति तृतीयदिने प्रौढा भवन्ति,२३ जयायामकारः प्रौढम्, रिक्तायामिकारः, पूर्णायां ऋकारः, नन्दायाम25 कारः, भद्रायां लकारः। वृद्धः२४ जलनिधिरिति चतुर्थे दिने स्वतिथिः (थेः)।* अत्र 1. ग. पुस्तके सर्वत्र 'सम्वत्सर' इति पाठः / 2-3. ग. पुस्तके अयमंशोऽस्पष्टः। 4-5. ग. पुस्तके अयमंशोऽस्पष्टः। 6. ग. तृतीय०। ७.भो LozLa Dus Kyi dBye Bas (वर्षमासऋतुभेदेन)। 8-9. ग. पुस्तके अयमंशोऽस्पष्टः / 10. ग. शुक्लप्रतिपदादिनामभेदय / 11. ग. पुस्तके अस्पष्टम् / 12-13. ग. पुस्तके अयमंशोऽस्पष्टः / 14-15. ग. पुस्तके अयमंशोऽस्पष्टः / 16-17. ग. पुस्तके अयमंशोऽस्पष्टः / 18-19. ग. पुस्तके अयमंशोऽस्पष्टः। 20-21. ग. पुस्तके अयमंशोऽस्पष्टः / 22-23. ग. पुस्तके अयमंशोऽस्पष्टः / *. भो. Tshes Las (तिथैः) /
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy