________________ 124 विमलप्रभायां [लोकधातुयोर्गुणौ, "ऋको(s)णो' रलौ" (चा० व्या० 1.1.15) इति सूत्रात् / ऋल नपुंसको / [पुन अकौ] न स्याताम्, ऋकारलकारयोरपि गुणतः इकारादीनां विशेषाभावात् / तस्मात् “अइ[उण];[ऋ] लु [क] ; ए ओ []" इति बालानां लोकरूढिः / गुणयणो[रु]त्पादात् “अइउण; ऋलुक्" इति न्यायः, "इको यणचि" (अ०. 6.1.77) 5 इति विशेषात्, “अको ऽ कि दीर्घः" (चा० व्या० 5.1.106; "अकोऽकि इत्येव सुवचम्"-सि० कौ०, “अकः सवर्णे दीर्घः" 6.1.101, इति सूत्रस्योपरि) [इति] ज्ञापकात् [च]। आदौ* ये पञ्चस्वरास्ते स्वयम्भुवा व्याकृताः, समानरूपास्ते' **चाकाशादिप्रकृतिवशाद् यथासंख्यं मञ्जुश्रिया लिखितः(त)स्वव्याकरणे' / अइउण (ण) ऋ लु 10 [क]'३ इति आकाशवायु-तेज-उदक-पृथ्वीस्वभावा यथाक्रमम्, तथा अ ए अर (र्) ओ अल (ल्) च, ह य र व ल ट (ट्) तथा मञ्जुश्रिया निर्दिष्टा (:) गुणयणादेशतः, स्वस्वप्रकृतिस्वभावाश्रयणादिति [ ] / ते पञ्चस्वराः प्रथमतिथिवशादिति'४ प्रथमतिथयः पञ्च'५, तमोभेदेन शुक्ल"... प्रतिपत् द्वितीया तृतीया चतुर्थी पञ्चमीति, ताभ्यां (सां) वशात्, प्रथमतिथिवशात् .: 15 पञ्चानां नन्दादयो योगाः; पञ्चस्वराणां नन्दा प्रथमा तिथिः, द्वितीया भद्रा, तृतीया जया, चतुर्थी रिक्ता, पञ्चमी पूर्णा; एवं षष्ठ्याद्यास्तथा एकादशा(श्या)द्या' / T287 अस्मिन् नन्दादियो[79a]गे कुर्वन्त्यत्रोदयान्ते" यदि तत्र भौमादिवारा(रो) न२° भवति(भवेत्) नन्दायां भौमः, भद्रायां बुधः, जयायां बृहस्पतिः, रिक्तायां शुक्रः, पूर्णायां मन्दः-अत्र नन्दादौ यदि भौमादिवारो न भवति, तदोदितो भवति; अन्यथा अनिष्टोदयः; हे नृप, भौमे अनिष्टोदये सति नन्दायां यदि' भवति पुनः कृत्तिकायोग२२ एव; तस्मात् नन्दा२३तिथौ संग्रामो वा रोगो वा यदि भवति, नृणां मृत्युरादिस्वरस्य 4 प्रथमस्वरस्येत्यर्थः, अकारादिर्यस्य नाम तस्य पुरुषस्य स्त्रियो२५ वा२६ / 1. ग. ऋकोणो। 2. ग. पुस्तके अयमंशोऽस्पष्टः ; भो. Ma nin du mi hGyur / 3-4. ग. पुस्तके अयमंशोऽस्पष्टः / 5. घ. ०भावस्त / 6-7. ग. पुस्तके अयमंशोsस्पष्टः / 8. ग. पुस्तके 'ण' इति नास्ति / 9. घ. स्वयंभुवो। 10-11. ग. पुस्तके अयमंशोऽस्पष्टः / 12-13. घ. 'अइ ऋउ लु' इति पाठः / 14. ग. पुस्तके अयमंशोऽस्पष्टः / 15-16. ग. पुस्तके अयमंशोऽस्पष्टः / 17. घ. एकादशाद्या; ग. एकादद्या। 18. ग. कुर्वन्त्युद्वोदयोन्ति / 19-20. ग. पुस्तके अयमंशोऽस्पष्टः / 21. ग. यतिदि / 22-23 ग. पुस्तके अयमंशोऽस्पष्टः / 24. ग. मृत्युयादिस्वरस्य / ***.भो. dByans INa Gan Yin Pa De Dag ran Byun du Lun bsTan pas mNam Pahi No Bo STe (ये पञ्चस्वराः स्वयम्भुना व्याकृतत्वात् समानरूपास्ते)। 25-26. ग. स्तिपोवा॑ /