________________ पटले स्वरोदययन्त्रविधिनियममहोद्देशः 123 इत्यामन्त्रणं मञ्जुश्रियः; हे' [80b] सूर्यरथ, लघुतन्त्रसम्बन्ध-अध्येषण-प्रज्ञोपायप्रभेदैदिवारात्रिप्रभेदेन' चन्द्र-सूर्यभेदाद्यैः; समविषमकुलैः; समो दीर्घः विषमो ह्रस्वः,शोघ्रवक्रादिचारैर्न ज्ञातं वीतरागैः पर[78b] *ममुनिकुलैब्रह्मरुद्रादिदेवैरिति / एवं पूर्वोक्तविधिना एभिर्ब्रह्मादिभिर्न ज्ञातं कालचक्र भगवन्तं संवृतिरूपेण व्यवस्थितं व्यापकं सर्वव्याप्येषु स्थावरजङ्गमवस्तुषु, यथा सम्यक्सम्बुद्धेन भगवता सर्वज्ञेन ज्ञातं लौकिक-5 लोकोत्तर-संवतिविवतिरूपेण, सूचन्द्रस्य वज्रपाणेः प्रकाशितम्, मयापि तै(ते)सर्यरथ, संक्षेपतस्तदेव कालचक्रभगवन्तं प्रकाशितं मञ्जश्रिया यशोनरेन्द्रेणेति / इति श्रीमूलतन्त्रानुसारिण्यां द्वादशसाहस्रिकायां लघुकालचक्रतन्त्रराजटीकायां विमलप्रभायां ज्योतिर्ज्ञानविधिमहोद्देशः नवमः // 9 // 10 (10) स्वरोदययन्त्रविधिनियममहोद्देशः इदानीं स्वरोदय उच्यतेआद्याः पञ्चस्वरा ये प्रथमतिथिवशात् पञ्चनन्दादियोगे कुर्वन्त्यत्रोदयान्ते यदि नृप न भवेत् तत्र भौमादिवारः / भौमेऽनिष्टोदये वै यदि भवति पुनः कृत्तिकायोग एव तस्मिन् संग्रामरोगो यदि भवति नृणां मृत्युरादिस्वरस्य // 95 / / 15 आदि(ये)त्यादि / अकार आदिर्येषां स्वराणां ते आद्याः पञ्च, अ इ उ ऋ ल इति; स्वयम्भुवोक्तम् “अइउण्; ऋलगि"ति (शि० सू० 1-2) प्रत्याहारग्रहणात् / "ए ओ(ङ); [ऐ औ]च्” (शि० सू० 3-4) (इति)° पाठात् सन्ध्यक्षरौ इकार-उकार 1. अत्र क. ख, पुस्तके त्रुटिते; त्रुटितांशः परं प्रथमपटलान्तं यावत् क. ख. पुस्तकयोः टीका नोपलभ्यते; केवलं मूलमात्रमस्ति / अत इतः पश्चात् ग. पुस्तकात् टीकायाः उल्लेखः प्रस्तूयते; तस्य पाठभेदः घ. पुस्तकात् दीयते / [80b]इत्यस्य पश्चात् ग. पुस्तकस्य [ ] कोष्ठके पृष्ठाकानां प्रस्तुतीकरणं च विद्यते / 2. घ. भेदेन / 3. घ. शीघ्रचक्रादिचारैः / 4. ग. संवृतिमयेण / 5-6. घ. इति श्रीमहादिबुद्धोद्धृतलघुकालचकतन्त्रराजटीकायां विमलप्रभायां द्वादशसाहनिकायां ज्योतिषनिविधिमहोद्देशः नवमः / 7-8. ग. पुस्तके 'आदित्यादि'तः 'आद्या'पर्यन्तमस्पष्टम.। अत्र येषु येषु स्थलेषु पाठा अस्पष्टाः तेषु तेषु स्थलेषु घ. पुस्तकादेव पाठाः प्रदत्ताः / 9. ग. स्वयंभुवोक्त; घ. स्वयंभुवव्यक्तं / 10. ग. पुस्तके नास्ति / * अतः परं कोष्ठके ग. पुस्तकस्य पृष्ठसंख्या दीयते; पूर्वे तु क. पुस्तकस्य पृष्ठसंख्या कोष्ठके प्रदत्ता।