________________ 64 T 266 विमलप्रभायां [ लोकधातुतत्वात् उपाय इति / एवमुपायभावसम्भूतत्वाद् रजः सूर्य उपायः / प्रज्ञाकायसम्भूतत्वात् प्रज्ञा / एवं सर्वत्रानुगन्तव्य इति / इदानीं स्थावरजङ्गमत्रधातुकस्य मन्त्रा उच्यन्ते-सुरनरफणिनो भूतयोनिश्च मन्त्रा इति / सुराः कामरूपारूपाः / असुराश्च तदन्तर्वतिनः। नराः फणिनश्च प्रसिद्धा अनन्तादयः। भूतयोनिश्चतुर्विधा पूर्वोक्ता। स्थावरयोनिर्मेरुवृक्षादयः। सर्वे ते मन्त्रा भवन्ति; मन्त्रसंज्ञया संज्ञिता इति / अत्र त्रैधातुके यस्य यन्नाम तस्य तन्मन्त्रं साधनाय संकेतकं भवति / आद्यक्षरं ज्ञानबीजं भवति, समस्तं नाम' जापमन्त्रो भवति / विश्वार्थसाधनाय अनन्तमन्त्रा अनन्तसत्त्वनामभेदेनावगन्तव्याः। यथा नाम्न आद्यक्षरेण राशिः [41a] शुभाशुभफलार्थं सर्वनामाक्षरैरपि हीनमात्राधिको योऽधः / तथा प्रथमाक्षरेण सर्वनाम्ना च भावनाजापकार्यसिद्धिरिति; प्रतीत्यसमुत्पादे भ्रान्तिर्नास्ति / अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः स्वचित्तपरिणामाद्भवतीति / इत्यादौ कादियुक्ते आदौ अकारादौ स्वरसमूहे कादियुक्त ककारादिव्यञ्जनयुक्त भवति खलु नृपामन्त्रणम्, उत्पत्तिः, एवमनेनोक्तक्रमेण विधातोः कामरूपारूपधातोः / इति चन्द्र कलादिविश्वमन्त्रसंग्रहोद्देशः / (च) स्वराणां जन्मस्थाननिर्देशः इदानी स्वराणां जन्मस्थानादिसंग्रहवृत्तं नवमं विवृणोमि जन्मस्थानमित्यादिनाजन्मस्थानं स्वराणां कचटतपयुतां कादिसंयोजितानां कण्ठे तालज़भागे खपवनहविजे चौष्ठदन्तेऽम्बुभूम्योः / आदेरुष्णीषचक्र हृदि गलशिरसो नाभिचक्र च गुह्ये विश्वे कृष्णे च रक्ते शशिकनकनिभे स्कन्धधात्वादिदेवे // 9 // जन्मस्थानं स्वराणां कचटतपयुतां का विसंयोजितानामिति / इह स्वराः पूर्वोक्ता अकारादयः अ इ ऋ उ लु पञ्च / एषां जन्मस्थानं पञ्चधा यथासंख्यम् / किंभूतानाम् ? कचटतपयुतानां कादिसंयोजितानामिति / यथासंख्यं ककारादिवर्ग"संयोजिता 1. भो. Mii mThah dag / 2. ख. ०धिका०; भो. gYul hGyed (युद्धं, युद्धकरणं वा) 3. भो. पुस्तके 'तप' इत्यस्य स्थाने 'पत' इति पाठः / 4. ङ. पुस्तके अस्मिन् प्रसङ्गे यत्र यत्र 'कादि' लिखितम्, अथ वा 'क' बीजाक्षरं लिखितं तत्र रिक्तस्थानं दृश्यते; भो. पाठे 'क' इति दृश्यते / 5. क. वर्ण /