________________ श्रीसिद्धसेनदिवाकरप्रणीता दोषपक्ति-प्रसंख्यान-विषयातिशयात्ययैः / परमैश्वर्यसंयोग-ज्ञानेश्वर्य विकल्पयेत् // 31 // प्रसिद्धप्रातिभस्येति कामतस्तीर्थभक्तयः / ननु श्रीवर्धमानस्य वाचो युक्तः परस्परम् // 32 // 21. एकविंशतितमी श्रीवर्धमानद्वात्रिंशिका / सदा योगसात्म्यात् समुद्भूतसाम्यः प्रभोत्पादितप्राणिपुण्यप्रकाशः / त्रिलोकीशवन्धस्त्रिकालज्ञनेता . स एकः परात्मा गतिर्मे जिनेन्द्रः // 1 // शिवोऽथादिसङ्ख्योऽथ बुद्धः •पुराणः पुमानप्यलक्ष्योऽप्यनेकोऽप्यथैकः / प्रकृत्याऽऽत्मवृत्त्याप्युपाधिस्वभावः . स एकः परात्मा गतिर्मे जिनेन्द्रः // 2 // जुगुप्सा-भया-ऽज्ञान-निद्रा-ऽविरत्य गम-हास्य-शुग-द्वेष-मिथ्यात्वरागैः / न यो रत्यरत्यन्तरायैः सिषेवे स एकः परात्मा गतिमें जिनेन्द्रः // 3 // न यो बाह्यसत्त्वेन मैत्री प्रपन्न _स्तमोभिर्न नो वा रजोभिः प्रणुन्नः / त्रिलोकीपरित्राणनिस्तन्द्रमुद्रः स एकः परात्मा गतिर्मे जिनेन्द्रः // 4 //