________________ 614 त्रयोदशी सांख्यप्रबोधद्वात्रिंशिका ब्रह्माद्यष्टविधं दैवं सत्त्ववृत्तिविशेषतः / मानुष्यं च रजःशेषं स्वं वार्ततमसो जगत् // 19 // अविद्येकात्मको बन्धो गुणव्यापारलक्षणः / . दक्षिणादिविकल्पस्तु बालिशप्रसमाङ्कुशः // 20 // न ग्रहाः प्रतिबन्धाय नैकाग्र्यं वा प्रवृत्तये / / तिर्यक्ष्वपि च सिद्धयन्ति व्यक्ता नानात्वबुद्धयः // 21 // वैराग्यात् . करणग्रामे तन्निरोधे परिश्रमः / न ह्यहेतोनिमीलन्ति पुरुषार्थोत्थिता गुणाः // 22 // ज्ञान-प्रसादौ वैराग्यमित्यविधातमोजितम् / को हि रागो विरागो वा कुशलस्य प्रवृत्तिषु // 23 / / यावद् रजस्तमोवृत्तिमहमित्यवमन्यते / . परिष्वजति सत्त्वं च तावत् तेष्वेव गण्यते // 24 // क्षुन्नद्राद्यनयोवृत्तमात्मभूतं विपश्चितः / न सम्यग्दर्शनोपायं तथाऽन्यदपि कोऽत्ययः // 25 // सदाचारप्रवृत्तस्य क्रूरक्लिष्टक्रियस्य वा। सकृच्चाभ्युदिता ख्यातिनं च किञ्चिद् विशिष्यते // 26 // शेषवृत्ताशयवशात् साम्यप्रकृतिभेदवत् / समानप्रतिबोधानामसमानाः प्रवृत्तयः // 27 // किमत्र शुद्धं रिलष्टं वा किं वा कस्य प्रयोजनम् / कृतार्थानां गुणेष्वेव गुणानामिति जायते // 28 // भयं संबोधनं लिङ्गं किशोरप्राजनो यमः / न हि विज्ञान-चैनन्यनानात्वं प्राक समिध्यते // 29 //