________________ द्वादशी न्यायद्वात्रिंशिका गुणो नाम द्रव्यं भवति गुणतश्च प्रभवति गुणापेक्षं कर्माऽप्यनुशयमारम्भविषयम् / विभु स्यात् किं द्रव्यं गुणजमुत वान्यः पदविधि र्दिशो दिक्पर्यन्तं तव किमिति शक्यं गमयितुम् // 28 // 12. द्वादशी न्यायद्वात्रिंशिका / दैवखातं च वदनमात्मायत्तं च वाङ्मयम् / श्रोतारः सन्ति चोक्तस्य निर्लज्जः को न पण्डितः ? // 1 // अभिष्टुवन्ति यत् स्वैरं नृपगोष्ठयां नृपुङ्गवाः / असत्संदिग्धमुक्तानि कृषास्तेन कृपात्मकाः // 2 // प्रगवृत्तान्तगहनाद् विश्लिष्य प्रहता गिरः / योजयत्यर्थगम्या यः शब्दब्रह्म भुनक्ति सः // 3 / / प्रसिद्धशब्दार्थगतिर्ज्ञानं जात्यन्धपश्च यः / : न स स्वयं प्रवक्तारमुपास्ते तन्त्रयुक्तिषु // 4 // दुरुक्तानि निवर्तन्ते सूक्ते नास्ति विचारणा / पुरुषो ब्राह्मणः विप्रः पुरुषो वेति वा यथा // 5 // न सामान्य-विशेषाभ्यामृतेऽन्याहेतु जायते / तद् विशेष-विधाताभ्यां हेत्वाभासोपजातयः // 6 // द्वितीयपक्षप्रतिघाः सर्व एव कथापथाः / अभिधानार्थविभ्रान्तैरन्योऽन्यं तद् विप्रलप्यते // 7 //