________________ जगषड्भिर्द्रव्यैरनुपचरितैर्व्याप्तमखिलं तदप्यर्हज्ज्ञानादधिकमभियुक्तैरधिगतम्। 'यतः कालाद्यर्थे घनमपि धुनात्यन्धतमसं जिनादित्यालोकः स्थिरपरिणतः श्रीमदुदयः॥६३ (10) रथोद्धता—(रान्नराविह रथोद्धता लगौ) संजयन्तचरितं जगत्रये सुप्रसिद्धमतिभक्तिभावतः। संभवन्तु भुवि भव्यजन्तवः संस्मरन्तु जिनतां यियासवः॥६४ (11) दोधक-(दोधकवृतमिदं भभभाद्गौ) दुर्जयमप्यरिलोकमनेकैः शौर्यसखो निखिलं खचरौघैः। आशु विजित्य जनो जिनधर्मादाश्रयतामिह याति बहूनाम्॥६५ (12) वंशस्थ-(जतौ तु वंशस्थमुदीरितं जरौ) गृहीतरत्नत्रयभूषणा पुरा जना बभूवुः स्थिरभावनास्तदा। परे यतिश्रावकधर्मदीक्षिताः कृते युगे युक्त गुणाश्चकासिरे॥६६ (13) पृथ्वी-(जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः) समुद्रविजयः शिवां विहितपट्टबन्धां प्रियां बधूनिवहमुख्यतामधिगमय्य राज्यस्थितिम्। स्थिरां स परिपालयन् सहजबन्धु भव्याम्बुजः .. प्रतापमभिवर्धयन्नुदयनैर्जिनार्को यथा॥६७ * (14) उपजाति ... इस छन्द के अनेक भेद होते है। यह "इन्द्रव्रजा" व "उपेन्द्रव्रजा" छन्दों के पद जोड़कर बनता है—(अनन्तरो दीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः) द्विशत्यशीतिश्चतुरुत्तरा स्युरत्रोपवासाः परिगण्यमानाः। .. . एकोनषष्टिश्च हि भुक्तिकाला: फलं तु रत्नत्रयसारलब्धिः॥६८ (15) उपेन्द्रवज्रा—(उपेन्द्रवज्रा जतजास्ततो गौ) . . इतीरितं ताः प्रतिपद्य याताः प्रदृश्य चैकोग्रशकुन्तरूपा। प्रनुद्य हन्त्री हरिणात्ततुण्डा प्रचण्डनादा प्रणनाश भीता॥६९ (16) इन्द्रवज्रा-(स्यादिन्द्रवज्रा यदि तौ जगौ गः) रूपान्तराः पञ्चदशावसाना रूपान्तरा: षोडश यत्र चाग्रे। रूपोनकास्तत्परमन्तरूपा मुक्तावलीयं खलु रत्नपूर्वा // 70