SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रसूरिविरचितं सिद्धाधिनाथ:-किं ते कुन्दलता दृष्टचरी ? / मात्रिका-वरुणद्वीपे दृष्टचरी / (पुनरौषधिवलयं सिद्धनाथस्योपनीय) खेनैवौषधिद्रवेण यूयमुपशान्तप्रहारवेदनाः सञ्जाताः / सिद्धाधिनाथः-(पुरुषं प्रति ) कुतस्ते कण्ठिकाया लामा / पुरुषः-पाशपाणिनेयं मह्यमुपनीता / मया च जातमरणनिश्चयेन स्मरप्रतिमापृष्ठस्थितेन युष्मत्कण्ठे विनिवेशिता / सिद्धाधिनाथ:-कौमुदीमपहर्तु भ्राम्यहं तदानीं पाशपाणिना विडम्बितः। भवान् घातहेतुश्चायं मकरन्दः कौमुदी-सुमित्रानुरागिणा मयाऽस्मिन्नग्निकुण्डे कामदेवपुरतो व्यापादयितुं गवेषितः / इयं च स्वयं त्वया पुरः कौमुदी समासादिता / इदानीं. पुनर्मयोपनीता। पुरुषः-यो मया प्रवहणभङ्गादारभ्य क्लेशोऽनुभूतस्तस्य सर्वस्य युष्मत्प्रसादेन पर्यन्तः समजनि / तदिदानी समित्र-कलत्र-खापतेयं मामुपनयत कौतुकमङ्गलनगरम् / सिद्धाधिनाथः - इयतोऽप्यर्थस्य का नाम प्रार्थना ? / समादिश किमपरं ते प्रियमादधामि / पुरुषः-अतः परमपि किमपि प्रियमस्ति 1 / सिद्धाधिनाथः-तथापीदमस्तु उपनतमित्र कलत्रः सन्तप्तारामचन्द्रकरविशवाम् / आसाद्य यशोलक्ष्मी परां स्वतनश्चिरं भूयाः॥१८॥ // इति दशमोऽङ्कः समाप्तः // // कृतिरियं प्रबन्धशतकर्तुमहाकवेः श्रीरामचन्द्रस्य // म tatutstatuttitute कौमुदीमित्राणन्दं नाटकं समाप्तम् PARAME
SR No.004295
Book TitleKaumudi Mitranand Rupakam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages98
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy