________________ कौमुदीमित्राणन्दरूपकम् / पुरुषः- कथमेष मकरन्दः 1 / ( इति सरभसमुत्थाय परिरभते / ) सिद्धाधिनाथ:-(पुरुषं प्रति ) कोऽयं पथिकः ? / पुरुषः-अस्मन्मित्रं सुमित्रायाः पतिरयम् / (तापसी विलोक्य सरोमाञ्चमधोमुखी भवति / ) सिद्धाधिनाथः-(पथिकं प्रति ) किमर्थमत्रागमनं भवतः 1 / पथिक:-विज्ञातवरुणद्वीपवृत्तान्तोऽहं मित्राणन्दव्यसनं विज्ञपयितुं युष्माकमुपस्थितोऽस्मि / सिद्धाधिनाथ:-( सपश्चात्तापं पुरुषं प्रति) युष्माभिरेवाहमुपकृत्य खवमात्म व्यसने पातितः। क्रूरः कृतोपकारः प्रत्यपकाराय कल्पते भूयः। विरचितपाशविनाशः प्रणिहन्ति विपाशकं सिंहः॥१६॥ पुरुषः-सिद्धाधिनाथ! मास्म विषीदः / यदि व्यसनमिदं न भवेत् तदानीं कथमहं सन्निहितमित्र-कलत्रः स्याम् / अपकारं कुर्वाणैरुपकारः कोऽपि शक्यते कर्तुम् / सन्ताप्य फलसमृद्धाः करोति धान्यौषधीस्तपनः // 17 // (सिद्धाधिनाथः सलज्जमधोमुखो भवति / ) पुरुषः-सिद्धनाथ ! प्रियसम्पर्को वृथा मे मैत्रेयं विना / सिद्धाधिनाथ:-(पञ्चभैरवं प्रति ) ब्रूहि मात्रिकम् / यथा प्रियः सर्वोऽपि सङ्घटितः परमेकोऽवशिष्यते तदर्थ प्रयतस्त्र / (नेपथ्ये) प्रभातप्राया रजनिः / इदानीमनवसरो मत्रस्य / सिद्धाधिनाथ:-( आकर्ण्य ) पञ्चभैरव ! तर्हि ब्रूहि कुन्दलतां यथा मात्रिकमस्माकं दर्शय / (पञ्चभैरवो निष्क्रान्तः / ) (ततः प्रविशति कुन्दलता मान्त्रिकश्च / ) सर्वे-(विलोक्य ) कथमयं मैत्रेयः ? / मोदामहे मनोरथानामप्यगम्येन प्रियजनसङ्घटनेन / पुरुषः-मैत्रेय ! कथमत्र सम्प्राप्तोऽसि / मान्त्रिकः-रत्नाकरात् त्वया सह वियोजितो भ्राम्यन् कुन्दलतामनुसृतवान् /