________________ महाकविश्रीरामचन्द्रसूरिविरचितं मैत्रेयः-( सकम्पम् ) ततः किं कृतम् / / पुरुषः-( सदैन्यम् ) पुरन्दरेणाप्यविषयपीडाभिर्निशातकोटिभिर्बहुकीलकोटिभिः स्वयमिहाऽऽनीय प्रत्यङ्गं कीलितोऽस्मि / मित्राणन्दः-इदानीं प्रचेताः क वर्तते / / पुरुषः-क्वचिदपि कूले सङ्क्रीडते। प्रतिनिवृत्तः पुनः किमप्यतः परमपि विधास्थतीति नावगच्छामि। मैत्रेयः-अश्रोतव्यं अश्रोतव्यम् / (पुनरपवार्य ) तेनामुना महात्मनोऽस्य प्रबन्धेनाहमप्यन्तःशोकशङ्कुना कीलितोऽस्मि / तद् विचिन्तय किमपि शल्यसमुद्धरणोपयिकम् / मित्राणन्दः-अस्ति नः कुलक्रमागतः शल्यसमुद्धरणप्रथितमहिमा नाम पवित्रो मत्रः / परं कदाचिदप्यनिरूपितप्रत्ययः, अतो मे मनाग् मनः सन्देग्धि / (नेपथ्ये) सत्थवाह ! अजा कोमुई संदिसेदि / मित्राणन्दः-( विलोक्य ) कथमियं कुन्दलता ? / (मैत्रेयः ससम्भ्रममुत्थाय पुरुषं बृहतिकया प्रच्छादयति / ) (प्रविश्य ) कुन्दलता-सत्थवाह ! अजा कोमुई संदिसेदि / मित्राणन्दः-किमादिशति भगवती / कुन्दलता-पंडिच्छेदु एदं महप्पभावं मणिं सत्थवाहो / कयावि एस महंतं उवयारं करिस्सदि। मित्राणन्दः- कुन्दलतिके ! कीदृशमस्य प्रभावमुपवर्णयति कौमुदी 1 / ( कुन्दलता कर्णे एवमेव / ) . मित्राणन्दः -( सहर्षम् ) साधु ! समयोचितमनुगृहीतोऽसि भगवत्या / एते वयमागता एव रहः किमपि भगवत्या सह पोलोचयितुम् / - (कुन्दलता निष्क्रान्ता / ) मित्राणन्दः - महासत्त्व ! पदार्थः कोऽप्यनोऽपि स्थितः पुंसि लघीयसि / महत्त्वक्षीबचित्तेषु महत्सु खलु नार्घति // 7 // पुरुषः-(साक्षेपम् ) लघीयसीति विशेषणं विश्वोपकारकरणकच्छुराभ्यामात्मनो व्यवसाया-ऽध्यवसायाभ्यां प्रतिहतमुपात्तवानसि / महत्वक्षीवतां पुनरस्माकमयमकाण्डोप्रस्थितःप्रचेतःप्रभवः प्रतिभयाडम्बरः समूलकाषं कषितवान् / अपि च-अपारेऽप्यस्मिन् 1-2 सार्थवाह ! आर्या कौमुदी संदिशति। 3 प्रतीच्छतु एतं महाप्रभावं मणिं सार्थवाहः / कदापि एष महान्तं उपकारं करिष्यति /