________________ . .. " द्वितीयोऽङ्कः / (ततः प्रविशति गृध्राक्षः / ) गृध्राक्षः-(उच्चैःस्वरम् ) भो भो आश्रमवासिनः स्वयं का कुलपतिः समादिशतिअद्य खलु सान्तःपुरः पाशपाणिः सङ्क्रीडितुमिह समायातवान् , ततः सर्वैरपि कुश-प्रसूनसमिधः समादाय पुरुषैरहोरात्रमेकमुटजाभ्यन्तर एव स्थातव्यम् / (नेपथ्ये) यदादिशति कुलपतिः तदनुतिष्ठामः। गृध्राक्षः-(विचिन्त्य ) मकरन्दस्यापि द्रविणमपहर्त्तव्यमेव, ततस्तावप्यज्ञातवरुणद्वीपव्यवहारावतिथी विशेषतो निवारयामि / ( उच्चैःस्वरम् ) भो भो तपोधनाः! तावतिथी क्वचिदपि तिष्ठत इति जानीत / (नेपथ्ये) एतौ तौ देवतायतनजगत्यां तिष्ठतः / ___ (ततः प्रविशति मित्राणन्दो मैत्रेयश्च / ) मित्राणन्दः-(मैत्रेयं प्रति ) पश्य पश्य, ग्लास्नुध्वान्तततिर्मुखेषु ककुभां, स्थास्नुःप्रतापोचयो, मीलत्युत्पलिनीवनं, कमलिनीखण्डं समुन्मीलति। मजत्यम्बरवारिधावुडुगणो, दिक्चक्रमुन्मजति, प्राची चुम्बति चण्डरोचिषि जगद् वैचित्र्यमालम्बते // 1 // गृध्राक्ष:- 'भो भो अतिथी! भवद्भ्यां त्वरिततरमागन्तव्यम्' इति कुलपतिवा समादिशति / मित्राणन्दः-एते वयमागता एवेति गत्वा निवेदय कुलपतिपादेभ्यः / (गृध्राक्षो निष्कान्तः / ) ( नेपथ्ये ) भाभिः कुङ्कुमसोदराभिरभितो देवे प्रभाणां प्रभौ धात्री लिम्पति शीर्णमुद्रनयनैः किं किं न दृष्टं जनैः / पूर्वोपार्जितकर्मवर्मपटलप्रभ्रष्टदृष्टिक्रियो नात्मानं न परं च पश्यति कृपापात्रं पुन: कौशिकः // 2 // मित्राणन्दः-( आकर्ण्य सभयं ) कस्यापि महौजसो दुःस्थावस्थोपनिपातप्रतिरुद्धाशेषशुभाशुभव्यापारस्यायं व्याहारः / तदेहि मैत्रेय ! देवतायतनस्य पाश्चात्यभागमवलोकयामः। मैत्रेयः-(विलोक्य सभयम् ) कथमयं पुरुषः सहकारतरुणा सह वज्रकीला कीलितोऽस्ति /