________________ महाकविश्रीरामचन्द्रसूरिविरचितं नटः-सन्ति नामात्र भूयांसि सामाजिकजनमनःकौतुकानुबन्धीनि कथावस्तुनि / रसनिवेशभावा-ऽभावयोः पुनर्भावः प्रमाणम् / सूत्रधारः-(विहस्य ) प्रकरणस्यास्य सरसतायां किमुच्यते / यतःप्रबन्धानाधातुं नवभणितिवैदग्ध्यमधुरान् कवीन्द्रा निस्तन्द्राः कति नहि मुरारिप्रभृतयः / ऋते रामानान्यः किमुत परकोटौ घटयितुं रसान् नाट्यप्राणान् पटुरिति वितर्को मनसि नः॥३॥ अपि च प्रबन्धा इक्षुवत् प्रायो हीयमानरसाः क्रमात् / कृतिस्तु रामचन्द्रस्य सर्वा स्वादुः पुरः पुरः॥४॥ . . नटः-( सावहेलम् ) भाव! परोपनीतशब्दार्थाः खनाम्ना कृतकीर्तयः। निबद्धारोऽधुना तेन विश्रम्भस्तेषु का सताम् ? // 5 // सूत्रधारः-मार्ष! नास्य पर्यनुयोगस्य वयं पात्रम् / अत्रार्थे प्रबन्धविधानसमानकालाः सुमेधस एव प्रमाणम् / नट:-( सविषादम् ) भाव! निर्विण्णोऽस्मि तेनामुनाऽपदे क्लेशावेशदुर्भगेन शैलूपविद्यावैभवोपभोगेन / ततस्तां कामपि क्रियामनुतिष्ठ श्रेष्ठां यथा विश्रान्ताशेषविपदं श्रायसी सम्पदमासाद्य सततसनिहितमित्र-कलत्र-स्खापतेयः सुचिरममन्दमानन्दमुद्हामि / सूत्रधारः-(साक्षेपम् ) मार्ष! संसारखरूपपरिज्ञानवैदग्धीवन्ध्य इव व्याहरसि। ननु - __ अकृताखण्डधर्माणां पूर्वे जन्मनि जन्मिनाम् / - सापदः परिपच्यन्ते गरीयस्योऽपि सम्पदः॥६॥ (नेपथ्ये) विवेकोपनिषदममिहितवानसि / सूत्रधारः-कथमयं मित्राणन्दभूमिकावाही नर्तकः शब्दायते ?, तदेहि मार्ष ! करणीयान्तरमनुतिष्ठाभः। ( इति निष्क्रान्तौ / / // आमुखम् // (ततः प्रविशति मित्राणन्दो मैत्रेयश्च / ) . मित्राणन्दः-परमार्थोऽयम् -