________________ * प्रबन्धशतकर्तृ-महाकवि-श्रीरामचन्द्रसूरि-विरचितं कौमुदीमित्राणन्दरूपकम् / // प्रथमोऽङ्कः॥ यः प्राप निवृति क्लेशाननुभूय भवार्णवे। तस्मै विश्वैकमित्राय त्रिधा नाभिभुवे नमः॥१॥ (नान्द्यन्ते) सूत्रधार:- (साक्षेपम् ) भो भोः सभासदः! सावधानाः शृणुत विज्ञापनामेकाम्-- व्यामोहप्रतिरोहपीतमनसः प्रज्ञाप्रसादाञ्चिता स्तस्माद् यद्यपजानते किमपि तैर्वाध्यामहे किं वयम् / सूर्या-चन्द्रमसावपि युतिमयौ निस्तेजसी लोचने जानीतः स्फुरिताजनैकवपुषौ, तत् किं न तौ भाखरौ ? // 2 // (आकाशे) किमादिशत ?, ये दुरात्मानो भवन्तमप्यवजानते न ते नाट्यवेदाम्भोधिपारदृश्वानः, ततः कृतं वैमनस्येन / प्रभूतकौतुकानुबन्धं [प्रबन्धं ] कमप्यभिनीय व्यपेतव्यामोहतमांसि प्रसादय प्रबलभाग्यप्रागल्भ्यलभ्यानां सभ्यानां मनांसि / (विमृश्य ) यथावस्थितमादिशन्ति सभ्याः / दुर्जनोपनीतक्लेशकोटिकण्टकिला खल्वियं संसाराटवी। गरीयसे च फलायोपनिबद्धकक्षेण प्रेक्षापूर्वकारिणा लोचने निमील्य सोढव्या एव प्रत्यूहव्युपनिपत्तयः / तदहं गृहं गत्वा प्रबन्धविशेष कमपि पर्यालोचयामि / (नेपथ्ये) कृतं पर्यालोचनेन / अस्ति खलु श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनविधानवेधसः श्रीमदाचार्यहेमचन्द्रस्य शिष्येण प्रबन्धशतविधाननिष्णातबुद्धिना नाट्यलक्षणनिर्माणापातावगाढसाहित्याम्भोधिना विशीर्णकाव्यनिर्माणनिस्तन्द्रेण श्रीमता रामचन्द्रेण विरचितं कुतूहलसहस्रनिधानं कौ मु दी मित्राणन्दा भिधानं निःशेषरसभावप्रदीपकं द्वितीयं रूपकम् / सूत्रधारः-कथमयं वत्सस्ताण्डका प्रबन्धविशेषं निर्णयति / (प्रविश्य) नटः- भाव ! प्रणमामि / सूत्रधारः-मार्ष ! कौमुदीमित्राणन्दनाम्नः प्रकरणस्याभिनये कृतनिश्चयोऽसि /