________________ कुमारपालदेवप्रवन्ध 112-1. 641. अथ श्रीकुमारपालनृपतेः सुतो नृपसिंहदेवो नामा पोडशवर्षदेशीयः शरीरे म(मा)यावी जातः ।वैद्याः परिकर्मणां चक्रुः, परं नालगत् / श्रीनृपो देवी च पार्श्व उपविष्टौ स्थः / इतो गुरुभिरुक्तम्-'वत्स ! किं पाधते / 'प्रभो ! एकं पाधते / यद् मत्तातो राज्यं प्राप्य कृपणो जातः / प्रासादाः पाषाणमयाः कारिता[:]। अहं तु स्वर्णमयान् कारयिष्यामि / असौ मनोरथः सहैव नेयः' / इत्युक्ते प्रभोनॆत्रेऽश्रुपातो जातः ।-'देव ! कुमारो न. जीवत्येव, यस्येत्थं मनोरथाः' / अथ कुमारसमाधिना दिवं ययौ // छ / श्रीहेमाचार्याणां शिष्यः सागरचन्द्रो रूपवान् विद्यावान् / स राज्ञा प्रभूणां पार्थात् राज्यार्ये याचितः / गुरुभिरुक्तम्-'देव! इदं न युज्यते सर्वथा / इतः सागरचन्द्रेण चतुर्विशतिनमस्काराः क्रियाग कृताः / सन्ध्यायां प्रतिक्रमणक्षणे उक्ताः / नृपेनो(गो)क्तम्-'अहो कविता ! अहो रूपम् ! . नृपः प्रतिक्रम्य धवलगृहं गच्छन् कपर्दिनं प्राह-भो भाण्डागारिक ! "गीतं न गायतितरां युवतिर्निशासु" इमां समस्यां यदि प्रातरर्वाक् पूरयसि तदा पट्टाश्वं दमि / कपर्दिना पूरिता श्रुत्वा ध्वनेमधुरतां गगनावतीर्णे भूमौ मृगे विगतलाञ्छन एष चन्द्रः। मा गान्मदीयवदनस्य तुलामितीव गीतं न गायतितरां युवतिर्निशासु // 12 // राज्ञा पट्टाश्वो दत्तः / एकदा श्रीगुरुभिः शिक्षा दत्ता सदा सदाचारवने यतेथा, मा कापि सप्तव्यसनी भजेथा। दीनेषु दौस्थ्यं परिखण्डयेथा, कीया त्रिलोकीमपि मण्डयेथा // 53 // 642. एकदा नृपे सभामुपविष्टे मालवीयाः प्रधाना नृपं नत्वा सभायामुपविशुः / इतो नृपेन(ण) खङ्गं कोशादाकृष्य पुनः क्षेप्तुमारब्धम् / न विशति / इतः प्रधानैर्मियो मुखावलोकनं कृतम् / ततः पुरोहितेनोक्तम् - सौराष्ट्रप्रभृतिक्षितीश्वरशिरःश्रेणीषु कृन्ताखपि, प्रत्याकारमुखप्रवेशविमुखस्तिष्ठन् क्रपाणोऽधुना। धाराध्वंसकृतप्रतिज्ञभवतश्चौलुक्यचूडामणे ! मन्येऽहं नरवर्मचर्मघटितां कोशश्रियं वाञ्छति // 54 // तत्कालं सैन्यानि सज्जयित्वा नृपो मालवकं प्रत्यचालीत् / वर्षत्रयवि[प्रहेण धारामाददे / नरवर्मनृपं चादाय श्रीपत्त[न]मायातः / एकदा नरवर्मेण राज्ञः किमपि महत् कार्य कृतम् / नृपस्तुष्ट उक्तवान्-वरं वृणु' / इतः सभा श्यामवक्त्रा जाता / असौ माल[व]कं याचिष्यते / इतो नरवर्मभूभुजा उक्तम्-'देव ! मम देवताऽवसरः प्रसादी-. क्रियताम् / अपरं न याचे' / तत्र वृद्धभोजनृपकरोडिः स्वर्णरत्नजटिताऽस्ति / तथा सीताया वने यान्त्या नृपदशरथेन मुद्राऽर्पिता-'बहुडी ! इयं गृह्यताम्' / सा 'बहुडी' इति ख्याता / सा च तत्रास्ति / हेममयी मण्डपिका, चिन्तामणिर्गणपतिः, इन्द्रनीलमयो नीलकण्ठः- एतानि वस्तूनि सन्ति / तत् श्रुत्वा सभा हृष्टा / न[प]स्तु श्यामो जातः / प्रधानैः पृष्टम्-'देव ! हर्षस्थाने को विषादः 1 यत्र मालवको गणितः, तत्र देवताऽवसरेण किम्? यूयं मूर्खाः, येन पूर्वजा उद्धृताः कष्टा [त्ततस्तेन सर्व कृतम्' / गुप्तेः कृष्ट्वा देवताऽवसरं मालवकं च दत्त्वा / प्रस्थि(स्थापि)तः॥ // इति नरवर्मप्रबन्धः // कु.पा.च. 14-3