________________ चतुरशीतिप्रबन्धान्तर्गत चतुर्मास्यामासीत्तव पदयुगं नाथ ! निकषा कषायप्रध्वंसाद् विकृतिपरिहारव्रतमिदम् / पुनस्त्वस्यां श्रद्धानिजचरणनिर्लोठितकले जलक्लिन्नरन्नैर्मुनितिलक ! वृत्तिर्भवतु मे // 48 // '638. एकदा आमिगपुरोहितः प्रभूणां चरणयोर्वन्दनं न यच्छति, मदात् / राज्ञा द्रम्मलक्षत्रयग्रासाद् बहिः कृत्वा पुरान्निष्काशि(सि)तः / वर्षत्रयं भ्रान्त्वा पुनरायातः। काव्यमेकं पत्रिकायां [आ]लिख्य पौषधागारमायातः / नमस्कृत्य पत्रिका दर्शिता, वाचिता ब्रह्मण्युत्पन्नयीजा कलितकिशलया प्राच्यवल्मीकपुत्रे व्यासे बद्धालवाला स्फुटरुचिररुचिक्नशे कालिदासे / प्रौढा श्रीमुञ्ज-भोजप्रमुखनृपगुणे पुष्पिता देवसूरी आचार्ये हेमसूरौ फलमिह जगृहे भारती[श्री]लतेव // 49 // वन्दनकम् , प्रसादे......युक्तम् / पुनः स्वपदे स्थापितः // छ / 639. एकदा श्रीपत्तने कांथडिॉगी समायातः / स त्वन्यदर्शनिकैरुक्तः-'श्वेताम्बरः पुरं व्याप्तम् / नृपस्तदशगोऽस्ति / यदि त्वादृशः कल(ला)वान् काञ्चिदपूर्वा कलां दर्शयति तदा मार्गमभ्येति' / 'स्वशक्त्या // यतिष्ये' / प्रातः कदलीपत्रपडे वेसिरकडदण्ड्यां (1) पञ्चवर्षदेशीयाः स्कन्धवाहकाः, तत्राविरुद्ध द्विजैस्स्तूयमानो बधाम / इतो नृपेण श्रीहेमाचार्या उक्ताः-'प्रभो ! कलावान् योगी, तस्य मिलनाय ययादेशो भवति तदायामि' / गुरुणोक्तम्-'विशेषतः, नृपेन(ण) सर्वदर्शनसमा[नेन भाव्यम्' / नृपश्चलितः / इतो ब्राह्मणैर्योगी वर्धापितः / नृपः समभ्येति / तस्य तृतीयज्वरपाली तदाऽऽसीत् / तेन कन्थायां तृतीयं न्यस्य उत्तार्य मुक्ता / सा धडहडति / इतो ध्यानबलेनावनेश्चतुरङ्गलं अलग्नो भूत्वा स्थितः / नृपेन(ण) दृष्टः / पृष्ठे आधारः / पथात् * ध्याने पारिते नृपेन(ण) पृष्टम्-'भगवन् ! कन्थाधः कोऽपि क्षुल्लकोऽस्ति ? / उत्पाढ्य दर्शिता / मुक्ता तथैव / 'देव ! तवागमनं श्रुत्वा अत्र तृतीयज्वरो विश्राणितः / यथा वार्ताः कर्तुं शक्यन्ते' / नृपः प्राह-तर्हि कथं नोच्छिद्यते ? / योगिनोक्तम् नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि / अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् // 50 // - श्रीहेमाचार्या अपि इत्यादिशन्ति / नृपे उत्थिते जनैः पौषधागारे प्रभूणामुक्तम् / गुरुमिः शिष्याना (णा)मादेशो दत्तः / यत् नृपे आगते उपवेशनात् कंबलिका अपाकर्त्तव्या / तथाकृते नृपः करप्रमाणं चतुर्दिक्षु निरालम्बान् दृष्ट्वा आह-'मम गुरुर्देवरूपी' इत्युक्त्वा नमस्कृत्याऽऽवासे न(ग)तः // छ॥ 640. इतो रामचन्द्रेण जात्या चारणेन श्रीप्र०पार्थे व्रतमात्तम् / स सर्वविद्यो जातः / एकदा गुरुभिः सह चैत्यं व्रजन् , रत्नावली पथि पतितां दृष्ट्वा आह-- . जेसं भूतलयस्स वि कणेसु पडिएसु आसि अहिलासे / ते ......अस्स पसाया रयणे वि अणायरा जाया // 51 // शतप्रबन्धकर्ताऽऽसीत् / एकदा योगशास्त्रमधीयानो रामो “रोम्णां ग्रहणमाकारे" स्थाने “रोम्णो" इति पठन् शेषतपोधनकक्तम्-'राम ! "रोम्णां" वद इत्थं', पुनस्तथैव वक्ति / गुरुभिरुक्तम् -'किमिति “जातावेकवचनम्" 1, भवविश्यम्।