________________ पुरावनाचार्यसंगृहीव अपरस्त दिनद्वयम् , यावन्मासादिकमपि कश्चित् / अनुभागेनापि स्निग्धमधुरत्वं लक्षणेन स एव कमिदेकगुणाढुंगागोऽपरस्तु द्विगुणानुभागः- इत्यादि / प्रदेशाश्च कणिक्कादिरूपाः / तैः स एव कश्चिदेकप्रतिमानोऽपरस्तु व्यादिप्रस.. तिमानः / एवं कर्मापि किश्चित् प्रकृत्या ज्ञानाच्छादकम् , किश्चिद् दर्शनाच्छादकमित्यादि / स्थितिस्त्रिंशत्सागरोपमकोयकोव्यादिका / तस्य रस एकस्थानादिः / प्रदेशा अनन्ताणुरूपाः / एवं कर्मग्रन्थानुसारेण सविस्तरं बन्धतत्त्वं ज्ञेयम् / . 656. अथ मोक्षतत्त्वम् - तत्रात्मनः स्वरूपावरणीयानां कर्मणां क्षयात् यः स्वरूपलामः स मोक्षः / स च तादा म्येन सम्बन्धयोर्जीवकर्मणोः पृथक्करणं कर्मक्षयः; नतु सर्वथा क्षयः, कर्म-पुद्गलानां नित्यत्वात् / यदुक्तम् - 421. .. जीवस्स अत्तजणिएहिं चेव कम्मेहिं पुवयद्धस्स / सबविओगो जो तेण तस्स अह ईतिओ मुक्खो॥ तस्य च सत्पदप्ररूपणायाम् - सत् विद्यमानं मोक्ष इति पदम् , शुद्धशब्दवाच्यत्वात् / नत्वसत् अविद्यमानं // वन्ध्यास्तनन्धयगगनकुशेशय-खरविषाणादिवदशुद्धशब्दवाच्यम् / यदुक्तम् - 422. चहऊणं संकपयं सारपयमिणं दढेण पित्तवं / अत्थि जओ परमपयं जयणा जा रागदोसेहिं // गत्यादिषु मार्गणास्थानेषु चिन्त्यमानं नरगतौ 1, एवं पञ्चेन्द्रियत्वे 2, सत्वे 3, भव्यत्वे 4, सञ्जित्वे 5, यथाख्यातचारित्रे 6, क्षायिकसम्यक्त्वे 7, अनाहारकत्वे 8, केवलज्ञानदर्शने 9 च / मोक्षपदं न शेषेषु / // द्रव्यप्रमाणचिन्तायां सिद्धानामनन्तानि जीवद्रव्याणि गृहान्तःप्रदीपितदीपशतसहस्रप्रभावदन्योऽन्यं समवगाडानि सन्ति / यदुक्तम् - त(ज)त्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुका। अन्नुन्नसमोगाढा पुट्ठा सवेवि लोगंते॥ 424. फुसइ अणंते सिद्धे सबपएसेहिं नियमसो सिद्धो। तेवि असंखिजगुणा देसपएसेहिं जे पुट्ठा // क्षेत्रं चतुर्दशरज्वात्मकलोकाग्रं पञ्चचत्वारिंशद्योजनलक्षप्रमाणसिद्धिशिलारूपम् / यदुक्तम् - 425. पणयाललक्खजोयणविक्खंभा सिद्धसिल फलिहविमला। तदुवरिगजोअणंते लोगंतो तत्थ सिद्धठिई // अथवा चरमभवशरीरप्रमाणात्तृतीयभागोनावगाहनारूपं क्षेत्रम् / यदुक्तम् - - 426. दीहं वा हस्सं वा जं चरमभवे हविज संठाणं। तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया // क्षेत्रात् स्पर्शनाधिका षट्सु दिक्षु सपर्शनाधिक्यात्। एकसिद्धमाश्रित्य कालः सादिरनन्तश्च, पश्चात् प्रतिपाताभावात् / सिद्धानां नान्तरं सर्वसंसारिकजीवानामनन्ततमे भागे सिद्धाः / सिद्धानां दर्शन-ज्ञाने क्षायिके भावे, जीवितं तु पारिणामिके भावे / सर्वस्तोका नपुंसकसिद्धाः, ततोऽसंख्यातगुणाः स्त्रीसिद्धाः; ततोऽपि पुरुषसिद्धार-संख्या तगुणाः / .427. असरीरा जीवगणा उवउत्ता दसणे य नाणे य / सागारमणागारं लक्खणमेयं तु सिद्धाणं॥ निच्छिन्नसबदुक्खा जाइजरामरणबंधणविमुका। अवाबाई मुक्खं अणुहुँति सासयं सिदा // 423. 428.