________________ 272. पुरातनाचार्यसंगृहीत 269. इह लोके गृहस्थोऽपि यशः प्रामोति निर्मलम् / सत्येन परलोकेषु सुलभाः स्वर्गसंपदः / - अथ तृतीयाणुव्रतम्२७०. दौर्भाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम्। अदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत्॥ 271. ___दानशीलतपोभावैः कृतं धर्म चतुर्विधम् / निष्फलं प्राणिनां सर्व परद्रव्याभिलापिणाम् // गृहिणोऽपि हि धन्यास्ते माननीया महात्मनाम् / . कुर्वन्ति स्वकरे मुक्तिं ये परस्वपराङ्मुखाः॥ अथ चतुर्थव्रतम् - पण्डत्वमिन्द्रियच्छेदं वीक्ष्याब्रह्मफलं सुधीः। __ भवेत् खदारसन्तुष्टो योऽन्यदारान् विवर्जयेत् // 274. रम्यमापात्तमात्रं यत् परिणमति दारुणम् / किंपाकफलसंकाशं तत् कः सेवेत मैथुनम्॥ 275. ब्रह्मचर्य भवेद्येषां स्वाधीनं गृहिणामपि / धन्या जगत्सु तेऽवश्यं लभन्ते परमं पदम् // अथ पञ्चमाणुव्रतं यथा२७६. __ असन्तोषमविश्वासमारम्भं दुःखकारणम् / मत्वा मूच्छीफलं कुर्यात् परिग्रहनियन्त्रणम् // ... 277. . असन्तोषवतां सौख्यं न शक्रस्य न चक्रिणः। जन्तोः सन्तोषभाजो यदभयस्येव जायते // 278. न विश्वसिति कस्यापि परिग्रहविमूढधीः। षट्सु जीवनिकायेषु करोत्यारम्भमन्वहम् // 279. अनन्तदुःखं संसारे ततः प्राप्नोति मूढधीः / परिग्रहमहत्त्वेन परलोकपराङ्मुखः॥ // 280. संनिधौ निधयस्तस्य कामगव्यनुगामिनी। अमराः किंकरायन्ते सन्तोषो यस्य भूषणम्॥ - इति श्रुत्वा श्रीकुमारपालः श्रीगुरुमुखेन यथाविधि पश्चाणुव्रती जग्राह / / अथ गुणव्रतान्याहुः२८१. दशखपि कृता दिक्षु यत्र सीमा न लभ्यते। ख्यातं दिगविरतिरितिप्रथमं तद्गुणवतम्॥ 282. चराचराणां जीवानां विमर्दनविवर्त्तनात् / तप्तायोगोलकल्पस्य सद्भुतं गृहिणोऽप्यदः॥ 1 283. यतः-तत्तायगोलकप्पोऽपमत्तजीवो णिवारियप्पसरों। सवत्थ किं न कुजा पावं तकारणाणुगओ॥ 284. जगदाक्रममाणस्य प्रसरल्लोभवारिधेः / स्खलनं विदधे तेन येन दिग्विरतिः कृताः॥. / अथ द्वितीयगुणव्रतम् - ___ भोगोपभोगयोः संख्या शक्त्या यत्र विधीयते। ___भोगोपभोगमानं तु द्वितीयीकं गुणवतम् // 286. सकृदेव भुज्यते यः स भोगोऽन्नमृगादिकः / पुनःपुनर्भोग्योपभोगोऽङ्गनादिकः॥ 287. मद्यमांसं नवनीतं मधूदुम्बरपञ्चकम् / अनन्तकायमज्ञातफलं रात्रौ च भोजनम् // तत्र मधं द्विधा काष्ठ-पिष्टनिष्पन्नम् , मांसं त्रिधा जल-स्थल-खेचरभेदात् / नवनीतं गोमहिष्यजेडकाभेदाचतुर्धा / मधु त्रिधा माक्षिकं भ्रामरं कौत्तिकं चेति / 285.