SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् दुर्वाक् शिलीमुखानेतान्, विशतः कर्णकोटरे । कुर्वतो मानसीं पीडां, स शैक्षः क्षन्तुमक्षमः ।। १४ ।। गुरून्विज्ञापयामास, दुर्वाक्परीषहोऽत्र मे । इतः प्रसादमाधाय, स्वामिन् ! अन्यत्र गम्यताम् ।।१५।। गुरुरूचे करिष्यामो, वत्सैवं माऽधृतिं कृथाः । इत्युक्त्वा वन्दनायातं, पृष्टवानभयं प्रभुः ।।१६।। प्रातरन्यत्र यास्यामो, वयं सचिवपुंगव! । सोऽवदन्मासकल्पस्य, योग्यं क्षेत्रमिदं न किम् ? ।।१७।। कार्यं वान्यत्र किं किञ्चिद्गुरुः स्माह महामते! । दुर्वाक्परीषहः शैक्ष-स्यास्त्यस्मिन् शस्त्रधातवत् ।।१८।। अभयोऽप्याह यद्येवं, यूयं तन्मा स्म गच्छत । तमहं वारयिष्यामि, कारयिष्ये च तैः स्तुतिम् ।।१९।। आचार्यास्तस्थिवांसोऽथ, रत्नकोटीरमात्यराट् । स्वाङ्गणेऽस्थापयत्तिस्रो, रोहणानेरिवाहताः ।।२०।। उद्घोषणा पुरस्यान्त-रचीकरत् समन्ततः । रत्नानि दास्यत्यभयः, सर्वेऽप्येतैत तज्जनाः! ।।२१।। सर्वेऽप्येयुरथादातुमभयोऽप्याह तान्प्रति । लातु रत्नत्रिकोटी स, यस्त्यजत्यग्नि-वाः-स्त्रियः।।२२।। अवोचंस्तेऽद्य यद्येतत्, त्रयं परिहरिष्यते । ततः कर्त्तव्यमेतेन, रत्नकोटीत्रयेण किम् ? ।।२३।। मन्त्री तान् पुनरप्याह, यद्येवं तर्हि किं जनाः? । यूयमेतं मुनिं ब्रुत, द्रमकं काष्ठभारिकम् ।।२४ ।। * कृथा धृतिम् ६.९ ।। • तमापप्रच्छाभ० ५-१० ।। 0 चा० ५-१० ।। * शा० ८ ।। है सचिवो रत्नकोटय: २, मन्त्रिणा रत्नकोटयः ५-१० ।।+ ०णे स्थापितास्तिस्रो ५-१० ।। . ०ता० १ ।। २ ०तः कार्यते स्म २.५-१० ।। १. एत-एत-आगच्छ-आगच्छ ।। * हे जनाः २ ।। . टी ८ ।। ४ स्त्रीजलाऽग्नीन् य .. उज्झति १.३.४, अयं मूलपाठः १० टिप्पण्यामपि ।। २. आप: २ टि० ।। 9 ०थ ५-१० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy