SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीदशवकालिकसूत्रम् • तदर्थप्रत्ययायाथ, नरः कश्चित्सुबन्धुना । गन्धानाघ्राय्य सर्वाक्ष-सौख्यैरायोजितो मृतः ।।६३।। सोऽथ दध्यौ धियं धिग्मे, धीमांश्चाणिक्य एव हि । यन्मृतेनापि तेनाह-मेवं जीवन्मृतः कृतः ।।६४।। नटवद्भावहीनोऽसौ, मुनिवेषस्ततः स्थितः । जीवितेच्छुरभव्यात्मा, न त्यागी तेन भण्यते ।।५।। यस्तु त्यागी श्रमणो भवति तमाहजे हुं कंते पिए भोए, लद्धे वि प्पिट्ठि कुब्वइ । साहीणे चयइ भोए, से हु चाइत्ति वुई ।।३।। हुरेवकारार्थे। य:-साधुः, एव कान्तान्-कमनीयान्। प्रियान्-इष्टान्। भोगान्शब्दादिविषयान् लब्धान्। विविधैः-नानाप्रकारैः शुभभावनादिभिः। पृष्ठतः करोतिपश्चात्पातयति । स्वाधीनान्-स्वायत्तान् भोगान् । अत्र पुनर्भोगग्रहणं सम्पूर्णग्रहणार्थम्। सम्पूर्णानपि भोगान् त्यजति। स एव त्यागी-श्रमण उच्यते । भरतेश्वर-धन्यशालिभद्र-जम्बूस्वाम्यादिवत् । . अत्राह पर:-ये केचिदर्थहीना द्रमकादयः, परिव्रज्य भावतोऽहिंसादिगुणयुक्ते श्रामण्येऽभ्युद्यता भवन्ति। ते किं न परित्यागिनः ? . आचार्य आह । अत्र सकललोकसाराणि त्रीणि रत्नानि-अग्नि-रुदकं स्त्री च, एतानि च प्रत्येकं कोटिरत्नमूल्यानि । .मकोऽपि च तानि परित्यज्य भावतो ज्ञानदर्शनचारित्राणि प्रतिपद्यमानस्त्यागी भणनीय एव । अत्र दृष्टान्तः समस्तोत्तमवस्तूनां, कोशवेश्मेव वेधसः । यदभूदद्भुताशेष-गृहं राजगृहं पुरम् ।।१।। सुकृतं साक्षिणं कृत्वा, मृगाक्षं किल पत्रकम् । आत्ता श्रीयंत्र दासीव-दाजन्मावधि नागरैः ।।२।। • प्पठी ८ ।। रविकारार्थो ८, रविकारार्थे ९ ।। 0 यः एव १-५.७.११ ।। - साधुः कान्तान् ६.८.९ । यान् विविधैः ५-९ ।। + पृथूनः ८ ।। १. दूरीकरोति ८ टि० ।। २. प्रथमरङ्कादयः ८ टि०।। . द्रु० ६.११ ।। २०णे ८ ।। * ०राणि रत्नानि २.४ ।। . नि प्र० ६.८.९ ।। ४ द्रु० ६.११ ।। 9 ज्य च भा० ५-९ ।। . ० २ ।। ०ङ्क: ५-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। ३. करारपत्रमिति भाषा० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy