SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ १४ . श्रीतिलकाचार्यविरचितटीकायुतम् सिद्धसाक्षिकमालोच्य, स्मरन् पञ्चनमस्कृतिम् । प्रतलीकृतदुःकर्मा, चाणिक्यः स्वर्गमीयिवान् ।।५१।। सुबन्धुना नृपोऽन्येधु-र्व्यज्ञप्यत यथा मम । देव ! |सीद चाणिक्यवेश्मनोऽदान्नृपोऽपि तत् ।।५२ ।। गतः सुबन्धुस्तत्राथ, सर्वशून्ये गृहेऽखिले । एकमेवापवरकं, पिहितद्वारमैक्षत ।।५३।। भविष्यत्यत्र सर्वस्व-मित्यसौ चिन्तयंस्ततः । द्वारमुद्धाटयामास, मञ्जूषामथ दृष्टवान् ।।५४ ।। अरेऽस्यां साररत्नानि, भविष्यन्तीति चिन्तया । भित्त्वा तालकमुद्धाट्या-पश्यद् गन्धसमुद्गकम् ।।५।। हुं जाने बीजकान्यत्र, भावीनीति विभावयन् । तामप्युद्धाट्य पश्यन्न-पश्यद् गन्धान सपत्रकान् ।।६।। ततोऽतिसुरभीन् गन्धां-स्तानाघ्रायाथ पत्रकम् । वाचयन् ददृशे तत्र, गन्धाघ्राणोत्तरक्रियाम् ।।५७ ।। एतानाघ्राय यो गन्धान, जलं पिबति शीतलम् । भुङ्क्ते सर्वरसं भोज्य-मधःकृतसुधं सुधीः ।।५८ ।। कर्पूरकुसुमादीनां, गन्धं गृह्णाति बन्धुरम् । निरूपयति रूपाणि, मनोहारीणि सस्पृहम् ।।५९।। वीणावेणुरवोन्मिश्राः, शृणोति कलगीतिकाः । सविलासाङ्गनासङ्ग-लालसो बोभवीति च ।।६० ।। किं बहूक्तेन पञ्चानां, विषयाणां मनोरमम् । भजत्येकमपि क्षिप्रं, जायते स यमातिथिः ।।६१।। यस्तु मुण्डितमुण्डास्यः, प्रान्ताशीमलिनांशुकः । अस्नानी मुनिवृत्त्यैव, वर्ततेऽत्रं स जीवति ।।६।। * ०गं प्राप्तवान् ६ ।। प्रदत्त १०, अयं पाठः १० टिप्पण्यामपि दृश्यते ।। 0 न्य० ५-८.१०, अयं मूलपाठः १० टिप्पण्यामपि दृश्यते ।। १. अधःकृतसुधं-तिरस्कारकृतममृतम्, एतादृशं भोज्यम् ८ टि० 1 सुरभिं जिघ्रति ५-८ ।। २. अतिशयेन भवतीति बोभवीति ८ टि० ।। ३. पानभोक्त: २ टि० ।। पि० ८ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy