________________
४३३
श्रीदशवैकालिकसूत्रम् निदं च न बहु मनिज्जा, सप्पहासं विवजए ।
मिहो कहाहिं न रमे, अज्झयणमि रओ सया ।।४१।। निद्रां च न बहु मन्येत-प्रकामशायी न स्यात् । साहासम्-अत्यन्तहास्यं विवर्जयेत् । मिथः कथासु-रहो वार्तासु न रमते । अध्ययने-सूत्रवाचनादौ रतः सदा साधुरित्यर्थः ।।
तथा
जोगं च समणधंमंमि, मुंजे अनलसो धुवं । जुत्तो य समणधर्ममि, अटुं लहइ अणुत्तरं ।।४२।।
योगम्-मनोवाक्कायरूपम् । श्रमणधर्म-क्षान्त्यादौ । अनलसो युञ्जीत । ध्रुवम्-निश्चितम् । सामान्येन सर्वत्र विशेषतोऽनुप्रेक्षाकाले मनोयोगम्, अध्ययनकाले वाग्योगं, प्रत्युपेक्षाकाले काययोगम् । फलमाह-युक्तश्च व्यापृतः । श्रमणधऽर्थं लभतेऽनुत्तरम्-केवलज्ञानरूपम् ।
एतदेवाहइहलोगपारत्तहियं, जेण गच्छइ सोगई ।
बहुस्सुयं पज्जुवासिज्जा, पुच्छिजत्थविणित्थयं ।।४३।। .. बहुश्रुतम्-आगमधरम् । पर्युपासीत । तत्पार्श्वे अर्थविनिश्चयम् । इहलोकपरत्र हितम्-कल्याणावहम् । पृच्छेत् । येन-ज्ञातेन । सुगतिम्-सिद्धिलक्षणाम्। पारम्पर्येण गच्छति ।।
तदुपास्तिविधिमाह
हत्थं पायं च कायं च, पणिहाय जिइंदिए । . अल्लीणगुत्तो निसीए, सगासे गुरुणो मुणी ।।४४।।
हस्तं पादं च कायं च । प्रणिधाय-सङ्कोच्य । जितेन्द्रयः-अनन्यव्यापारेन्द्रियः। आ-सामस्त्येन लीन:-लयवान्, उपयुक्तः । गुप्तः-तिसृभिर्गुप्तिभिः । निषीदेद् गुरोः सकाशे मुनिः ।।
क्व निषीदेदित्याह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org