________________
श्रीदशवैकालिकसूत्रम्
४२३
परिक्खभासी सुसमाहियंदिए, चउक्कासायावगए अणिस्सिए । से निद्धुणे धुनमलं पुरे कडं, आराहए लोगमिणं तहा परं त्ति बेमि ।।५७।। परीक्ष्यभाषी-आलोचितवक्ता । सुसमाहितेन्द्रियः । अपगतकषायचतुष्कः । अनिश्रितः–निश्रारहितः । स-साधुः । निधनुयात् अपनयेत् । धून्योऽपनेयो, मलः कर्मरूपः स धून्यमलः, तम् । पुराकृतम् । ओराधयेत् । इहलोकं परलोकं च । ब्रवीमि - इति पूर्ववत् ।।
1
।। वाक्यशुद्ध्यध्ययनटीका समाप्ता ।। ।। अष्टमम् आचारप्रणिध्यध्ययनम् ।। अनन्तराध्ययने वाक्यशुद्धिरुक्ता । सा चाचारे प्रणिहितस्य भवतीत्यनेन सम्बन्धेनायातमाचारप्रणिध्यध्ययनं व्याख्यायते । तच्चेदम्आयारपणिहिं लद्धुं, जहा कायव्व भिक्खुणा । तं भे उदाहरिस्सामि, आणुपुव्विं सुणेह मे ।। १ ।। आचारः-साध्वनुष्ठेयः, तस्य प्रकृष्टो निधिः प्रणिधिः तं लब्ध्वा - प्राप्य । यथा कर्तव्यं भिक्षुणा । तम् - प्रकारम् । भे- भवद्भ्यः । उदाहरिष्यामि - कथयिष्यामि । आनुपूर्व्या । शृणु मे - मम कथयतः । श्रीगौतमादयः स्वशिष्यानाहुः ।। तं प्रकारमाह
पुढविदगअगणिवऊ, तणरुक्खसबीयगा ।
तसा य पाणा जीवत्ति, इई वृत्तं महेसिणा ||२||
पृथव्युदकाग्निवायवः । तृणवृक्षसबीजाः । त्रसादयः । प्राणाः - प्राणिनः । जीवा इति । इत्युक्तं महर्षिणा - श्रीवीरजिनेन्द्रमुखात् श्रीगौतमस्वामिना ।।
यतश्चैवमतः
तेसिं अत्थणजोएण, निचं होयव्वयं सया ।
मणसा कायव्वकेणं, एवं हवइ संजए || ३ ||
१. निर्धूय १० टि० ।। २. आराधयति १० टि० ।। ३. स्थितस्य १० टि० ।। ४. मारुअ १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org