________________
३६८ श्रीतिलकाचार्यविरचितटीकायुतम्
असणं पाणगं वावि, खाइमं साइमं तहा ।। जं जाणिज सुणिज्जा वा, समणट्ठा पगडं इमं ।।५३।। श्रमणा:-निर्ग्रन्थशाक्यादयः । तं भवे भत्तपाणं तु, संजयाण अकप्पियं ।। दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥५४।।
दानार्थं पुण्यार्थं श्रमणार्थं प्रकृते-आरम्भे साधूनां गृह्णताम् आरम्भसंविभागो दोषः । वनीपकार्थं प्रकृते त्वन्तरायः । अतस्तदादाननिषेधः ।। ...
किं चउद्देसियं कीयगडं, पूइकम्मं च आहड । अजोअरपामिझं, मीसजाय च वजए ।।५५।।
औद्देशिकम्-साधूद्देशेन दन ओदनस्य मीलनेन करम्बकरणम् । सङ्खण्डिकोद्धृतमोदकचूर्णेन गुडपादादि क्षिप्त्वा मोदककरणं च । क्रीतम् प्रतीतम् । पूतिकर्मापिआधार्मिकावयवमिश्रम् । आहतम्-स्वग्रामाहृतादि । अध्यवपूरकम्-स्वार्थं मूलाद्रहणादौ, साध्वर्थम् अधिकप्रक्षेपरूपम् । प्रामित्यम्-साध्वर्थमुद्धार्यानीय दानम् । मिश्रजातम्ही साध्वर्थं मूलत एव मिश्रमुपस्कृतं वर्जयेत् ।।
औद्देशिकादिसन्देहे किं कुर्यादित्याहउग्गमं से पुच्छिज्जा, कस्सट्टा केण वा कडं ? । सुद्धा निस्संकियं सुद्धं, पडिगाहिज्ज संजए ।।५६।।
उद्गमं से- तस्य शङ्कितस्यान्नादेः पृच्छेत् तत्स्वामिनं कर्मकरं वा । कस्यार्थं केन वा कृतमेतद् । न भवदर्थं किन्त्वन्यार्थमिदमिति तद्वचः श्रुत्वा निःशङ्कितं शुद्धं प्रतिगृह्णीयात् संयतः । विपर्यये दोषात् ।
असणं पाणगं चेव, खारमं साइमं तहा । पुष्केसु हुज उम्मीसं, बीएसु हरिएसु वा ।।५७।। इह तृतीयार्थे सप्तमी । पुष्पै/जैर्हरितैः उन्मिश्रम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org