SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् अजयं भासमाणो य, पाणभूयाई हिंसई । बंध पावयं कम्मं तं से होइ कडुयं फलं ।। ६ ।। अयतमिति क्रियाविशेषणम्, अयतनया ईर्यासमितिं विना, चरन्- गच्छन् । प्राणभूतानि हिनस्ति । प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृता । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः । । १ । । [ ] प्राणभूतानीति बहुवचनात् सर्वानप्येतान् प्रमादानुपयोगाभ्यां व्यापादयति । तानि हिंसन् बध्नाति पापकं कर्म । तत् से - तस्य । भवति । कटुकफलम्-दारुणविपाकफलं, कटुकानुस्वारोऽलाक्षणिकः । अयतं तिष्ठन् अस्थाने । अयतम् आसीनः -आकुञ्चनादि कुर्वन् । अयतं स्क्पन्-अप्रत्युपेक्ष्य परिवर्तनादिना । अयतं भुञ्जान:- निः कारणं प्रणीतादि सरागाद्वेषं वा । अयतं भाषमाणः - गृहस्थभाषया निष्ठुरम्, अन्तरभाषादिना वा । शेषं सर्वगाथासु पूर्ववत् । अत्राह शिष्यः । यद्येवं कर्मबन्धस्ततः कहं चरे ? कहं चिट्टे ?, कहमासे ? कहं सए ? | कहं भुंजतो ? भासन्तो ?, पावं कम्मं न बंधइ ॥ ७ ॥ ३५१ गुरुराह जयं चरे जयं चिट्ठे, जयमासे जयं सए । जयं भुजंतो भासतो, पावं कम्मं न बंधइ ||८|| किं बहुना - सव्वभूयप्यभूयस्स, सम्मं भूयाई पासओ । पिहियासव्वस्स दंतस्स, पावं कम्मं न बंधइ ।।९।। इह द्वितीयार्थे षष्ठी, सर्वाणि भूतानि आत्मभूतानि आत्मप्रायाणि यस्य स तथा तम् । सम्यग्भूतानि पृथ्व्यादीनि पश्यन्तम् । पिहिताश्रवम् - स्थगितप्राणातिपातादिकम् । दान्तम्-कर्मतापनम् । पापं कर्म कर्तृ न बध्नाति ।। I एवं तर्हि दयैव कार्या, किं ज्ञानाभ्यासेनेत्याह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy