SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३४९ श्रीदशवकालिकसूत्रम् शाखाया-वृक्षादेः । शाखभङ्गेन-शाखैकदेशेन । पहुणेन-मयूरपिच्छेन । पेहुणहस्तेन -मयूरपिच्छकलापेन, यथा केशहस्तः केशकलापः तथात्रापि । चेलेन वा-वस्त्रेण । चेलकर्णेन-चेलाञ्चलेन । हस्तेन वा मुखेन वा । एभिः किम् ? आत्मनः कायं बाह्यं वापि पुद्गलम्-उष्णौदनादि । न फूत्कुर्यात् न वीजयेत् । अन्यं न फूत्कारयेत् न वीजयेत् । अन्यं फूत्कुर्वन्तं वीजयन्तं वा । न समणुजाणामीत्यादि प्राग्वत् ।। से भिक्खू वा भिक्खूणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिया वा राउ वा एगउ वा परिसागउ वा सुते वा जागरमाणे वा । ___प्राग्वत्- से बीएसु वा, बीयपइडेसु वा, रूढेसु वा, रूढपइडेसु वा, जाएसु वा, जायपइडेसु वा, हरिएसु वा, हरियपइडेसु वा, छिन्नेसु वा, छिन्नपइडेसु वा, सचित्तेसु वा, सचित्तकोलपइडेसु वा । इह बीजम्-शाल्यादि । बीजप्रतिष्ठितम्-बीजोपरि स्थापितं शयनासनादि, एवं सर्वत्र वेदितव्यम् । रूढानि-विरूंढानि । जातानि-स्तम्बिभूतानि । हरितानिदूर्वादीनि छिन्नानि-वृक्षाद्यङ्गान्यपरिणतानि । सचित्तानि-अण्डकादीनि । कोल:घुणः; तत्प्रतिष्ठितानि-तदुपरिवर्तीनि । तेषु न गच्छिज्जा, न चिट्ठिज्जा, न निसीइजा, न तुयट्ठिज्जा, अन्नं न गच्छाविज्जा, न चिट्ठाविजा, न निसीयाविजा, न तुयट्ठाविजा, अन्नं गच्छंतं वा, चिटुंतं वा, निसीयंतं वा, तुयटुंतं वा, न समणुजाणामि, जावजीवाए तिविहं तिविहेणं, मणेणं, वायाए, कायेणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ।।५।। (सू० १४) न गच्छेत्, न तिष्ठेत्, न निषीदेत्, न त्वग्वर्तयेत्, न स्वपेदित्यर्थः । करणानुमत्यष्टपदी स्पष्टा । न समनुजानामीत्यादि प्राग्वत् ।। से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिया वा राउ वा एगउ वा परिसागउ वा सुत्ते वा जागरमाणे वा । १. अङ्करितानि १० टि० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy